बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया हि तपसाजनयत्पिता । एकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥
ननु कथं प्रसिद्धता अस्यार्थस्येति, उच्यते — जायादिकर्मान्तानां लोकफलसाधनानां पितृत्वं तावत्प्रत्यक्षमेव ; अभिहितं च — ‘जाया ते स्यात्’ इत्यादिना । तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभूतानां लोकानां साधनं स्रष्टृत्वं प्रति इत्यभिहितम् ; वक्ष्यमाणं च प्रसिद्धमेव । तस्माद्युक्तं वक्तुं मेधयेत्यादि । एषणा हि फलविषया प्रसिद्धैव च लोके ; एषणा च जायादीत्युक्तम् ‘एतावान्वै कामः’ इत्यनेन ; ब्रह्मविद्याविषये च सर्वैकत्वात्कामानुपपत्तेः । एतेन अशास्त्रीयप्रज्ञातपोभ्यां स्वाभाविकाभ्यां जगत्स्रष्टृत्वमुक्तमेव भवति ; स्थावरान्तस्य च अनिष्टफलस्य कर्मविज्ञाननिमित्तत्वात् । विवक्षितस्तु शास्त्रीय एव साध्यसाधनभावः, ब्रह्मविद्याविधित्सया तद्वैराग्यस्य विवक्षितत्वात् — सर्वो ह्ययं व्यक्ताव्यक्तलक्षणः संसारोऽशुद्धोऽनित्यः साध्यसाधनरूपो दुःखोऽविद्याविषय इत्येतस्माद्विरक्तस्य ब्रह्मविद्या आरब्धव्येति ॥

तत्प्रसिद्धिमुपपादयितुं पृच्छति —

नन्विति ।

साध्यसाधनात्मके जगति यत्पितृत्वमविद्यावतो भावि तत्प्रत्यक्षत्वात्प्रसिद्धम् अनुभूयते हि जायादि संपादयन्नविद्वानित्याह —

उच्यत इति ।

श्रुत्या च प्रागुक्तत्वात्प्रसिद्धमेतदित्याह —

अभिहितञ्चेति ।

यच्च मेधातपोभ्यां स्रष्टृत्वं मन्त्रब्राह्मणयोरुक्तं तदपि प्रसिद्धमेव विद्याकर्मपुत्राणामभावे लोकत्रयोत्पत्त्यनुपपत्तेरित्याह —

तत्र चेति ।

पूर्वोत्तरग्रन्थः सप्तम्यर्थः ।

पुत्रेणैवायं लोको जय्य इत्यादौ वक्ष्यमाणत्वाच्चास्यार्थास्य प्रसिद्धतेत्याह —

वक्ष्यमाणञ्चेति ।

मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्य प्रसिद्धार्थविषयं ब्राह्मणमुपपन्नमित्युपसंहरति —

तस्मादिति ।

प्रकारान्तरेण मन्त्रार्थस्य प्रसिद्धत्वमाह —

एषणा हीति ।

फलविषयत्वं तस्याः स्वानुभवसिद्धमिति वक्तुं हिशब्दः ।

तस्या लोकप्रसिद्धत्वेऽपि कथं मन्त्रार्थस्य प्रसिद्धत्वमत आह —

एषणा चेति ।

जायाद्यात्मकस्य कामस्य संसारारम्भकत्ववन्मोक्षेऽपि कामः संसारमारभेत कामत्वाविशेषादित्यतिप्रसंगमाशङ्क्याऽऽह —

ब्रह्मविद्येति ।

तस्या विषयो मोक्षः । तस्मिन्नद्वितीयत्वाद्रागादिपरिपन्थिनि कामापरपर्यायो रागो नावकल्पते । न हि मिथ्याज्ञाननिदानो रागः सम्यग्ज्ञानाधिगम्ये मोक्षे संभवति । श्रद्धा तु तत्र भवति तत्त्वबोधाधीनतया संसारविरोधिनि तन्न संसारानुषक्तिर्मुक्तावित्यर्थः ।

शास्त्रीयस्य जायादेः संसारहेतुत्वे कर्मादेरशास्त्रीयस्य कथं तद्धेतुत्वमित्याशङ्क्याऽऽह —

एतेनेति ।

अविद्योत्थस्य कामस्य संसारहेतुत्वोपदर्शनेनेति यावत् । स्वाभाविकाभ्यामविद्याधीनकामप्रयुक्ताभ्यामित्यर्थः ।

इतश्च तयोर्जगत्सृष्टिप्रयोजकत्वमेष्टव्यमित्याह —

स्थावरान्तस्येति ।

यत्सप्तान्नानीत्यादिमन्त्रस्य मेधया हीत्यादिब्राह्मणस्य चाक्षरोत्थमर्थमुक्त्वा तात्पर्यमाह —

विवक्षितस्त्विति ।

शास्त्रपरवशस्य शास्त्रवशादेव साध्यसाधनभावादशास्त्रीयाद्वैतमुख्यसंभवान्न तस्यात्र विवक्षितमित्यर्थः ।

शास्त्रीयस्य साध्यसाधनभावस्य विवक्षितत्वे हेतुमाह —

ब्रह्मेति ।

तदेव प्रपञ्चयति —

सर्वो हीति ।

दुःखयतीति दुःखस्तद्धेतुरिति यावत् । प्रकृतमन्त्रब्राह्मणव्याख्यासमाप्तावितिशब्दो विवक्षितार्थप्रदर्शनसमाप्तो वा ।