यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया हि तपसाजनयत्पिता । एकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥
तत्र अन्नानां विभागेन विनियोग उच्यते — एकमस्य साधारणमिति मन्त्रपदम् ; तस्य व्याख्यानम् — इदमेवास्य तत्साधारणमन्नमित्युक्तम् ; भोक्तृसमुदायस्य ; किं तत् ? यदिदमद्यते भुज्यते सर्वैः प्राणिभिरहन्यहनि, तत् साधारणं सर्वभोक्त्रर्थमकल्पयत्पिता सृष्ट्वा अन्नम् । स य एतत्साधारणं सर्वप्राणभृत्स्थितिकरं भुज्यमानमन्नमुपास्ते — तत्परो भवतीत्यर्थः — उपासनं हि नाम तात्पर्यं दृष्टं लोके ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इत्यादौ — तस्मात् शरीरस्थित्यर्थान्नोपभोगप्रधानः नादृष्टार्थकर्मप्रधान इत्यर्थः ; स एवंभूतो न पाप्मनोऽधर्मात् व्यावर्तते — न विमुच्यत इत्येतत् । तथा च मन्त्रवर्णः — ‘मोघमन्नं विन्दते’ (ऋ. १० । ९७ । ६) इत्यादिः ; स्मृतिरपि —’नात्मार्थं पाचयेदन्नम्’ ‘अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः’ (भ. गी. ३ । १३) ‘अन्नादे भ्रूणहा मार्ष्टि’ (मनु. ८ । १३७) इत्यादिः । कस्मात्पुनः पाप्मनो न व्यावर्तते ? मिश्रं ह्येतत् — सर्वेषां हि स्वं तत् अप्रविभक्तं यत्प्राणिभिर्भुज्यते, सर्वभोज्यत्वादेव यो मुखे प्रक्षिप्यमाणोऽपि ग्रासः परस्य पीडाकरो दृश्यते — ममेदं स्यादिति हि सर्वेषां तत्राशा प्रतिबद्धा ; तस्मात् न परमपीडयित्वा ग्रसितुमपि शक्यते । ‘दुष्कृतं हि मनुष्याणाम्’ ( ? ) इत्यादिस्मरणाच्च ॥