बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया हि तपसाजनयत्पिता । एकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥
गृहिणा वैश्वदेवाख्यमन्नं यदहन्यहनि निरूप्यत इति केचित् । तन्न । सर्वभोक्तृसाधारणत्वं वैश्वदेवाख्यस्यान्नस्य न सर्वप्राणभृद्भुज्यमानान्नवत्प्रत्यक्षम् । नापि यदिदमद्यत इति तद्विषयं वचनमनुकूलम् । सर्वप्राणभृद्भुज्यमानान्नान्तःपातित्वाच्च वैश्वदेवाख्यस्य युक्तं श्वचाण्डालाद्याद्यस्य अन्नस्य ग्रहणम् , वैश्वदेवव्यतिरेकेणापि श्वचाण्डालाद्याद्यान्नदर्शनात् , तत्र युक्तं यदिदमद्यत इति वचनम् । यदि हि तन्न गृह्येत साधारणशब्देन पित्रा असृष्टत्वाविनियुक्तत्वे तस्य प्रसज्येयाताम् । इष्यते हि तत्सृष्टत्वं तद्विनियुक्तत्वं च सर्वस्यान्नजातस्य । न च वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वतः पाप्मनोऽविनिवृत्तिर्युक्ता । न च तस्य प्रतिषेधोऽस्ति । न च मत्स्यबन्धनादिकर्मवत्स्वभावजुगुप्सितमेतत् , शिष्टनिर्वर्त्यत्वात् , अकरणे च प्रत्यवायश्रवणात् । इतरत्र च प्रत्यवायोपपत्तेः, ‘अहमन्नमन्नमदन्तमद्मि’ (तै. उ. ३ । १० । ६) इति मन्त्रवर्णात् ॥

एकमस्येत्यादिमन्त्रब्राह्मणयोः स्वपक्षार्थमुक्त्वा भर्तृप्रपञ्चपक्षमाह —

गृहिणेति ।

यदन्नं गृहिणा प्रत्यहमग्नौ वैश्वदेवाख्यं निवर्त्यते तत्साधारणमिति भर्तृप्रपञ्चैरुक्तमित्यर्थः ।

साधारणपदानुपपत्तेर्न युक्तमिदं व्याख्यानमिति दूषयति —

तन्नेति ।

वैश्वदेवस्य साधारणत्वमप्रामाणिकमित्युक्तमिदानीं तस्याप्रत्यक्षत्वादिदमा परामर्शश्च न युक्तिमानित्याह —

नापीति ।

इतश्च साधारणशब्देन सर्वप्राण्यन्नं ग्राह्यमित्याह —

सर्वेति ।

वैश्वदेवग्रहेऽपीतरग्रहः स्यादिति चेन्नेत्याह —

वैश्वदेवेति ।

यत्तु परपक्षे यदिदमद्यत इति वचो नानुकूलमिति तन्नास्मत्पक्षेऽस्तीत्याह —

तत्रेति ।

प्रत्यक्षं साधारणान्नं सप्तम्यर्थः ।

विपक्षे दोषमाह —

यदि हीति ।

प्रसंगस्येष्टत्वं निराचष्टे —

इष्यते हीति ।

परपक्षे वाक्यशेषविरोधं दोषान्तरमाह —

न चेति ।

श्येनादितुल्यत्वं तस्य व्यावर्तयति —

न च तस्येति ।

अनिषिद्धस्यापि तस्य स्वभावजुगुप्सितत्वात्तदनुष्ठानुयायिनः पापानिवृत्तिरित्याशङ्क्याऽऽह —

न चेति ।

‘अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।’
इत्यकरणे वैश्वदेवस्य प्रत्यवायश्रवणाच्च तदनुष्ठानुयिनो न पाप्मलेशोऽस्तीत्याह —

अकरणे चेति ।

सर्वसाधाणान्नग्रहे तु तत्परस्य निन्दावचनमुपपद्यते तेन तदेव ग्राह्यमित्याह —

इतरत्रेति ।

तत्रैव श्रुत्यन्तरं संवादयति —

अहमिति ।

अर्थिभ्योऽविभज्यान्नमदत्त्वा स्वयमेव भुञ्जानं नरमहमन्नमेव भक्षयामि तमनर्थभाजं करोमीत्यर्थः ।