मन्त्रब्राह्मणयोः श्रुत्यर्थाभ्यामर्थमुक्त्वा समनन्तरग्रन्थमवतारयति —
तत्रेति ।
सप्तविधेऽन्ने सृष्टे सतीति यावत् ।
व्याख्यानमेव विवृणोति —
अस्येत्यादिना ।
साधारणमन्नमसाधारणीकुर्वतो दोषं दर्शति —
स य इति ।
तत्परो भवतीत्युक्तं विवृणोति —
उपासनं हीति ।
ब्राह्मणोक्तेऽर्थे मन्त्रं प्रमाणति —
तथा चेति ।
मोघं विफलं देवाद्यनुपभोग्यमन्नं यदि ज्ञानदुर्बलो लभते तदा स वध एव तस्येति साधारणमन्नस्यासाधारणीकरणं निन्दितमित्यर्थः तत्रैव स्मृतीरुदाहरति —
स्मृतिरपीति ।
‘न वृथा घातयेत्पशुम् । न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत्’ इति पादत्रयं द्रष्टव्यम् । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तान्’(भ. गी. ३ । १२) इति शेषः । ‘अन्नेन अभिशंसति । स्तेनः प्रमुक्तो राजनि यावन्नानृतसंकरः’(आ.ध.सू.) इत्युत्तरं पादत्रयम् । तत्राऽऽद्यपादस्यार्थो भ्रूणहा श्रेष्ठब्राह्मणघातकः । यथाऽऽहुः –
‘वरिष्ठब्रह्महा चैव भ्रूणहेत्यभिधीयते’ इति ।
स्वस्यान्नभक्षके स्वपापं मार्ष्टि शोधयतीत्यन्नदातुः पापक्षयोक्तेरितरस्यासाधारणीकृत्य भुञ्जानस्य पापितेति ।
“अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृर्ध्रैर्जग्धिमात्मनः ॥”(म.स्मृ. ३ । ११५) इत्यादिवाक्यमादिशब्दार्थः ।
आकाङ्क्षापूर्वकं हेतुमवतार्य व्याकरोति —
कस्मादित्यादिना ।
सर्वभोज्यत्वं साधयति —
यो मुख इति ।
परस्य श्वामार्जारादेरिति यावत् ।
पीडाकरत्वे हेतुमाह —
ममेदमिति ।
प्रागुक्तदृष्टिफलमाचष्टे —
तस्मादिति ।
साधारणमन्नसाधारणीकुर्वाणस्य पापानिर्वृत्तिरित्यत्र हेत्वन्तरमाह —
दुष्कृतं हीति ।
यदा हि मनुष्याणां दुष्कृतमन्नमाश्रित्य तिष्ठति तदा तदासाधारणीकुर्वतो महत्तरं पापं भवतीत्यर्थः ।