मन्त्रान्तरमादायाऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे —
द्वे देवानित्यादिना ।
हुतप्रहुतयोर्देवान्नत्वे संप्रतितनमनुष्ठानमनुकूलयति —
यस्मादिति ।
पक्षान्तरमुपन्यस्य व्याकरोति —
अथो इति ।
यदि दर्शपूर्णमासौ देवान्ने कथं तर्हि हुतप्रहुते इति पक्षस्य प्राप्तिस्तत्राऽऽह —
द्वित्वेति ।
तर्हि द्वे देवानिति श्रुतद्वित्वस्य हुतप्रहुतयोरपि संभवान्न प्रथमपक्षस्य पूर्वपक्षत्वमत आह —
यद्यपीति ।
प्रसिद्धतरत्वे हेतुमाह —
मन्त्रेति ।
‘अग्नये जुष्टं निर्वपामि’ ‘अग्निरिदं हविरजुषत’ इत्यादिमन्त्रेषु दर्शपूर्णमासयोर्देवान्नत्वस्य प्रतिपन्नत्वादिति यावत् ।
इतश्च दर्शपूर्णमासयोरेव देवान्नत्वमिति वक्तुं सामान्यन्यायमाह —
गुणेति ।
गुणप्रधानयोरेकत्र साधारणशब्दात्प्राप्तौ सत्यां प्रथमतरा प्रधाने भवत्यवगतिर्गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय इति न्यायादित्यर्थः ।
अस्त्वेवं प्रस्तुते किं जातं तदाह —
दर्शपूर्णमासयोश्चेति ।
तयोर्निरपेक्षश्रुतिदृष्टतया सापेक्षस्मृतिसिद्धहुताद्यपेक्षया प्राधान्यं सिद्धं तथा च प्रदानयोस्तयोरितरयोश्च गुणयोरेकत्र प्राप्तौ प्रधानयोरेव द्वे देवानिति मन्त्रेण ग्रहो युक्तिमानित्यर्थः ।
दर्शपूर्णमासयोर्देवान्नत्वे समनन्तरनिषेधवाक्यमनुकूलयति —
यस्मादिति ।
इष्टियजनशीलो न स्यादिति संबन्धः ।
ननु तद्यजनशीलत्वाभावे कुतो दर्शपूर्णमासयोर्देवार्थत्वं न हि तावन्निष्पन्नौ तदर्थावित्याशङ्क्याऽऽह —
इष्टिशब्देनेति ।
किं पुनरस्मिन्वाक्ये काम्येष्टिविषयत्वमिष्टिशब्दस्येत्यत्र नियामकं तत्र किलशब्दसूचितां पाठकप्रसिद्धिमाह —
शातपथीति ।
काम्येष्टीनामनुष्ठाननिषेधे स्वर्गकामवाक्यविरोधः स्यादित्याशङ्क्याऽऽह —
ताच्छील्येति ।
तत्र विहितस्योकञ्प्रत्ययस्यात्र प्रयोगात्काम्येष्टियजनप्रधानत्वमिह निषिध्यते तच्च देवप्रधानयोर्दर्शपूर्णमासयोरवश्यानुष्ठेयत्वसिद्ध्यर्थं न तु ताः स्वतो निषिध्यन्ते तन्न स्वर्गकामवाक्यविरोधोऽस्तीत्यर्थः ।