एकमस्येत्यादिमन्त्रब्राह्मणयोः स्वपक्षार्थमुक्त्वा भर्तृप्रपञ्चपक्षमाह —
गृहिणेति ।
यदन्नं गृहिणा प्रत्यहमग्नौ वैश्वदेवाख्यं निवर्त्यते तत्साधारणमिति भर्तृप्रपञ्चैरुक्तमित्यर्थः ।
साधारणपदानुपपत्तेर्न युक्तमिदं व्याख्यानमिति दूषयति —
तन्नेति ।
वैश्वदेवस्य साधारणत्वमप्रामाणिकमित्युक्तमिदानीं तस्याप्रत्यक्षत्वादिदमा परामर्शश्च न युक्तिमानित्याह —
नापीति ।
इतश्च साधारणशब्देन सर्वप्राण्यन्नं ग्राह्यमित्याह —
सर्वेति ।
वैश्वदेवग्रहेऽपीतरग्रहः स्यादिति चेन्नेत्याह —
वैश्वदेवेति ।
यत्तु परपक्षे यदिदमद्यत इति वचो नानुकूलमिति तन्नास्मत्पक्षेऽस्तीत्याह —
तत्रेति ।
प्रत्यक्षं साधारणान्नं सप्तम्यर्थः ।
विपक्षे दोषमाह —
यदि हीति ।
प्रसंगस्येष्टत्वं निराचष्टे —
इष्यते हीति ।
परपक्षे वाक्यशेषविरोधं दोषान्तरमाह —
न चेति ।
श्येनादितुल्यत्वं तस्य व्यावर्तयति —
न च तस्येति ।
अनिषिद्धस्यापि तस्य स्वभावजुगुप्सितत्वात्तदनुष्ठानुयायिनः पापानिवृत्तिरित्याशङ्क्याऽऽह —
न चेति ।
‘अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।’
इत्यकरणे वैश्वदेवस्य प्रत्यवायश्रवणाच्च तदनुष्ठानुयिनो न पाप्मलेशोऽस्तीत्याह —
अकरणे चेति ।
सर्वसाधाणान्नग्रहे तु तत्परस्य निन्दावचनमुपपद्यते तेन तदेव ग्राह्यमित्याह —
इतरत्रेति ।
तत्रैव श्रुत्यन्तरं संवादयति —
अहमिति ।
अर्थिभ्योऽविभज्यान्नमदत्त्वा स्वयमेव भुञ्जानं नरमहमन्नमेव भक्षयामि तमनर्थभाजं करोमीत्यर्थः ।