बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया हि तपसाजनयत्पिता । एकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥
पशुभ्य एकं प्रायच्छदिति — यत्पशुभ्य एकं प्रायच्छत्पिता, किं पुनस्तदन्नम् ? तत्पयः । कथं पुनरवगम्यते पशवोऽस्यान्नस्य स्वामिन इत्यत आह — पयो हि अग्रे प्रथमं यस्मात् मनुष्याश्च पशवश्च पय एवोपजीवन्तीति ; उचितं हि तेषां तदन्नम् , अन्यथा कथं तदेवाग्रे नियमेनोपजीवेयुः । कथमग्रे तदेवोपजीवन्तीति उच्यते — मनुष्याश्च पशवश्च यस्मात् तेनैवान्नेन वर्तन्ते अद्यत्वेऽपि, यथा पित्रा आदौ विनियोगः कृतः तथा ; तस्मात् कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेहयन्ति प्राशयन्ति ; स्तनं वा अनुधापयन्ति पश्चात् पाययन्ति यथासम्भवम् अन्येषाम् ; स्तनमेवाग्रे धापयन्ति मनुष्येभ्योऽन्येषां पशूनाम् । अथ वत्सं जातमाहुः कियत्प्रमाणो वत्स इत्येवं पृष्टाः सन्तः — अतृणाद इति — नाद्यापि तृणमत्ति, अतीव बालः पयसैवाद्यापि वर्तत इत्यर्थः । यच्च अग्रे जातकर्मादौ घृतमुपजीवन्ति, यच्च इतरे पय एव, तत् सर्वथापि पय एवोपजीवन्ति ; घृतस्यापि पयोविकारत्वात्पयस्त्वमेव । कस्मात्पुनः सप्तमं सत् पश्वन्नं चतुर्थत्वेन व्याख्यायते ? कर्मसाधनत्वात् ; कर्म हि पयःसाधनाश्रयम् अग्निहोत्रादि ; तच्च कर्म साधनं वित्तसाध्यं वक्ष्यमाणस्यान्नत्रयस्य साध्यस्य, यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने ; अतः कर्मपक्षत्वात् कर्मणा सह पिण्डीकृत्योपदेशः ; साधनत्वाविशेषात् अर्थसम्बन्धात् आनन्तर्यमकारणमिति च ; व्याख्याने प्रतिपत्तिसौकर्याच्च — सुखं हि नैरन्तर्येण व्याख्यातुं शक्यन्तेऽन्नानि व्याख्यातानि च सुखं प्रतीयन्ते । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेत्यस्य कोऽर्थ इत्युच्यते — तस्मिन् पश्वन्ने पयसि, सर्वम् अध्यात्माधिभूताधिदैवलक्षणं कृत्स्नं जगत् प्रतिष्ठितम् — यच्च प्राणिति प्राणचेष्टावत् , यच्च न स्थावरं शैलादि । तत्र हि - शब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम् । कथं पयोद्रव्यस्य सर्वप्रतिष्ठात्वम् ? कारणत्वोपपत्तेः ; कारणत्वं च अग्निहोत्रादिकर्मसमवायित्वम् ; अग्निहोत्राद्याहुतिविपरिणामात्मकं च जगत्कृत्स्नमिति श्रुतिस्मृतिवादाः शतशो व्यवस्थिताः ; अतो युक्तमेव हि - शब्देन व्याख्यानम् । यत्तद्ब्राह्मणान्तरेष्विमदमाहुः — संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ; संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च शतानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसम्पद्यमानाः संवत्सरस्य च अहोरात्राणि, संवत्सरमग्निं प्रजापतिमाप्नुवन्ति ; एवं कृत्वा संवत्सरं जुह्वत् अपजयति पुनर्मृत्युम् - इतः प्रेत्य देवेषु सम्भूतः पुनर्न म्रियत इत्यर्थः — इत्येवं ब्राह्मणवादा आहुः । न तथा विद्यात् न तथा द्रष्टव्यम् ; यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति न संवत्सराभ्यासमपेक्षते ; एवं विद्वान्सन् — यदुक्तम् , पयसि हीदं सर्वं प्रतिष्ठितं पयआहुतिविपरिणामात्मकत्वात्सर्वस्येति, तत् — एकेनैवाह्ना जगदात्मत्वं प्रतिपद्यते ; तदुच्यते — अपजयति पुनर्मृत्युं पुनर्मरणम् , सकृन्मृत्वा विद्वान् शरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः । कः पुनर्हेतुः, सर्वात्माप्त्या मृत्युमपजयतीति ? उच्यते — सर्वं समस्तं हि यस्मात् देवेभ्यः सर्वेभ्यः अन्नाद्यम् अन्नमेव तदाद्यं च सायम्प्रातराहुतिप्रक्षेपेण प्रयच्छति । तद्युक्तम् — सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैः देवैः एकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति । अथैतदप्युक्तं ब्राह्मणेन — ‘ब्रह्म वै स्वयम्भु तपोऽतप्यत, तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति, तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येत्’ (शत. ब्रा. १३ । ७ । १ । १) इति ॥

पशुभ्य इति ; कथं पुनरिति ; अग्र इति ; अन्यथेति ; कथमिति ; उच्यत इति ; मनुष्याश्चेति ; यथासंभवमिति ; स्तनमेवेति ; अथेति ; नाद्यापीति ; यच्चेति ; घृतस्यापीति ; कस्मादिति ; कर्मेति ; कर्म हीति ; तच्चेति ; यथेति ; साधनत्वेति ; इति चेति ; व्याख्यान इति ; सुखं हीति ; व्याख्यातानीति ; तस्मिन्नित्यादिना ; तत्रेति ; पयसि हीति ; कथमिति ; कारणत्वनेति ; कारणत्वञ्चेति ; अग्निहोत्रादीति ; अत इति ; यत्तदिति ; संवत्सरेणेति ; सप्त चेति ; याजुष्मतीरिति ; संवत्सरस्येति ; संवत्सरमिति ; एवमिति ; इत्येवमित्यादिना ; यदुक्तमिति ; तदेकेनेति ; तदुच्यत इति ; कः पुनरित्यादिना ; अथेति ; तदैक्षतेति ; हन्तेति ; तत्सर्वेष्विति ; स्वाराज्यमिति ;

पश्वन्नविषयं मन्त्रपदमादाय प्रश्नपूर्वकं तदर्थं कथयति —

पशुभ्य इति ।

पशूनां पयोऽन्नमित्येतदुपपादयितुं पृच्छति —

कथं पुनरिति ।

पयो हीति प्रतीकमुपादाय व्याकरोति —

अग्र इति ।

‘पशवो द्विपादश्चतुष्पादश्च’ इति श्रुतिमाश्रित्य मनुष्याश्चेत्युक्तम् । उचितं हीत्यत्र हिशब्दस्तस्मादर्थे यस्मादित्युपक्रमात् ।

औचित्यं व्यतिरेकद्वारा साधयति —

अन्यथेति ।

नियमेन प्रथमं पशूनां तदुपजीवनमसंप्रतिपन्नमिति शङ्कते —

कथमिति ।

मनुष्यविषये वा प्रश्नस्तदितरपशुविषये वेति पृच्छति —

उच्यत इति ।

तत्राऽऽद्यमनुभावावष्टम्भेन प्रत्याचष्टे —

मनुष्याश्चेति ।

चकारो मनुष्यमात्रसंग्रहार्थः । तेनैव पयसैवेति यावत् । घृतं वेति वाशब्दो वक्ष्यमाणविकल्पद्योतकः ।

जातरूपं हेम त्रैवर्णिकेभ्योऽन्येषां जातकर्माभावाद्योग्यतामनतिक्रम्य स्तनमेव जातं कुमारं प्रथमं पाययन्तीत्याह —

यथासंभवमिति ।

यद्वा तेषां जातकर्मानधिकृतानां जातं कुमारं घृतं वा स्तनं वा प्रथमं पाययन्तीति यावत् ।

पशुविषयं प्रश्नं पशवश्चेतिसूचितसमाधानं प्रत्याह —

स्तनमेवेति ।

पशूनां जातं वत्समिति संबन्धः ।

पशूनां पयोऽन्नमित्यत्र लोकप्रसिद्धिं प्रमाणयति —

अथेति ।

द्विपात्पश्वधिकारविच्छेदार्थोऽथशब्दः ।

प्रतिवचनं व्याचष्टे —

नाद्यापीति ।

ननु येषामग्रे घृतोपजीवित्वमुपलभ्यते पयस्ते नोपजीवन्ति घृतपयसोर्भेदादतः पश्वन्नत्वं पयसो भागासिद्धमत आह —

यच्चेति ।

ननु घृतमुपजीवन्तोऽपि पय एवोपजीवन्तीत्ययुक्तं तद्भेदस्योक्तत्वात्तत्राऽऽह —

घृतस्यापीति ।

मन्त्रपाठक्रममतिक्रम्य पश्वन्ने व्याख्याते प्रत्यवतिष्ठते —

कस्मादिति ।

द्वे देवानभाजयदिति व्याख्याते साधने साधनत्वाविशेषात्पयोऽपि बुद्धिस्थमित्यर्थक्रममाश्रित्य परिहरति —

कर्मेति ।

तदेव स्पष्टयति —

कर्म हीति ।

यद्यपि पयोरूपं साधनमाश्रित्य कर्म प्रवृत्तं तथाऽपि दर्शपूर्णमासानन्तर्यं कथं पयसः सिध्यति तत्राऽऽह —

तच्चेति ।

वित्तेन पयसा साध्यं कर्मान्नत्रयस्य साधनमित्यत्र दृष्टान्तमाह —

यथेति ।

पूर्वोक्तौ दर्शपूर्णमासौ द्वे देवान्ने वक्ष्यमाणस्यान्नत्रयस्य यथा साधनं तथा पयसोऽप्यग्निहोत्रादिद्वारा तत्साधनत्वात्कर्मकोटिनिविष्टत्वात्तद्व्याख्यानानन्तर्यं पयोव्याख्यानस्य युक्तमित्यर्थः ।

पाठक्रमस्तर्हि कथमित्याशङ्क्यार्थक्रमेण तद्बाधमभिप्रेत्याह —

साधनत्वेति ।

आनन्तर्यं पाठक्रमः । अकारणत्वमविवक्षितत्वम् ।

पाठक्रमादर्थक्रमस्य बलीयस्त्वात्तेनेतरस्य बाध्यत्वमित्येत्प्रथमे तन्त्रे स्थितमित्यभिप्रेत्याऽऽह —

इति चेति ।

पश्वन्नस्य चतुर्थत्वेन व्याख्याने हेत्वन्तरमाह —

व्याख्यान इति ।

व्याख्यानसौकर्यं साधयति —

सुखं हीति ।

प्रतिपत्तिसौकर्यं प्रकटयति —

व्याख्यातानीति ।

चत्वारि साधनानि त्रीणि साधनानीति विभज्योक्तौ वक्तृश्रोत्रोः सौकर्येण धीर्भवति ततश्च पाठक्रमातिक्रमः श्रेयानित्यर्थः ।

पश्वन्नस्य सर्वाधिष्ठानविषये मन्त्रमवतार्य प्रश्नपूर्वकं तदीयं ब्राह्मणं व्याचष्टे —

तस्मिन्नित्यादिना ।

मन्त्राद्भेदो ब्राह्मणे न प्रतिभातीत्याशङ्क्याऽऽह —

तत्रेति ।

पयसि हीति ।

ब्राह्मणे हिशब्दस्य प्रसिद्धावद्योतकत्वमस्ति । तेन च हेतुना हिशब्देन तस्मिन्नित्यादिकं मन्त्रपदं व्याख्यातमिति योजना ।

मन्त्रार्थस्य लोकप्रसिद्ध्यभावान्न प्रसिद्धावद्योतिना हिशब्देन व्याख्यानं युक्तमिति शङ्कते —

कथमिति ।

कार्यं कारणे प्रतिष्ठितमिति न्यायेन वैदिकीं प्रसिद्धिमादाय समाधत्ते —

कारणत्वनेति ।

पयसो द्रवद्रव्यमात्रस्य कुतः सर्वजगत्कारणत्वमित्याशङ्क्याऽऽह —

कारणत्वञ्चेति ।

तत्समवायित्वेऽपि कुतो जगतः कारणतेत्याशङ्क्याऽऽह —

अग्निहोत्रादीति ।

‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतः’ इत्यादयः श्रुतिवादा द्युपर्जन्यव्रीह्यादिक्रमेणाग्निहोत्राहुत्योर्गर्भाकारप्राप्तिं दर्शयन्ति ।
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥”
इत्यादयः स्मृतिवादाः ।

पयसि हीत्यादि ब्राह्मणमुपसंहरति —

अत इति ।

पयसः सर्वजगदाधारत्वस्य श्रुतिस्मृतिप्रसिद्धत्वादिति यावत् ।

सर्वं पयसि प्रतिष्ठितमिति विधित्सितदर्शनस्तुतये शाखान्तरीयमतं निन्दितुमुद्भावयति —

यत्तदिति ।

न केवलेन कर्मणा मृत्युजयः किन्तु दर्शनसहितेनेति दर्शयितुमग्निहोत्राहुतिषु संख्यां कथयति —

संवत्सरेणेति ।

उक्ताहुतिसंख्यायां संवत्सरावच्छिन्नायामग्निहोत्रविदां संप्रतिपत्त्यर्थं किलेत्युक्तम् ।

ननु प्रत्यहं सायं प्रातश्चेत्याहुती द्वे विद्येते तत्कथमाहुतीनां षष्ट्यधिकानि त्रीणि शतानि संवत्सरेण भवन्ति तत्राऽऽह —

सप्त चेति ।

प्रत्येकमहोरात्रावच्छिन्नाहुतिप्रयोगाणामेकस्मिन्संवत्सरे पूर्वोक्ता संख्या तत्रैव प्रयोगार्धानां विंशत्यधिका सप्तशतरूपा संख्येति सिद्धमित्यर्थः ।

आहुतीनां संख्यामुक्त्वा तासु याजुष्मतीनामिष्टकानां दृष्टिमाह —

याजुष्मतीरिति ।

तासामपि षष्ट्यधिकानि त्रीणि शतानि संख्यया भवन्ति । तथा च प्रत्यहमाहुतीरभिनिष्पद्यमानाः संख्यासामान्येन याजुष्मतीरिष्टकाश्चिन्तयेदित्यर्थः ।

आहुतिमयीनामिष्टकानां संवत्सरावयवाहोरात्रेषु संख्यासामान्येनैव दृष्टिमन्वाचष्टे —

संवत्सरस्येति ।

तान्यपि षष्ट्यधिकानि त्रीणि शतानि प्रसिद्धानि । तथा च तेषु यथोक्तेष्विष्टकादृष्टिः श्लिष्टेत्यर्थः ।

चित्येऽग्नौ संवत्सरात्मप्रजापतिदृष्टिमाह —

संवत्सरमिति ।

यः संवत्सरः प्रजापतिस्तं चित्यमग्निं विद्वांसः संपादयन्ति । अहोरात्रेष्टकाद्वारा तयोः संख्यासामान्यादित्यर्थः ।

दृष्टिमनूद्य फलं दर्शयति —

एवमिति ।

उक्तसंख्यासामान्येनाग्निहोत्राहुतीरग्न्यवयवभूतयाजुष्मतीसंज्ञकेष्टकाः संपाद्य तद्रूपेणाऽऽहुतीर्ध्यायन्नाहुतीमयीश्चेष्टकाः संवत्सरावयवाहोरात्राणि तेनैव संपाद्य पुरुषनाडीस्थसंख्यासामान्येन तन्नाडीस्तान्येवाहोरात्राण्यापाद्य तद्रूपेणाऽऽहुतीरिष्टका नाडीश्चानुसन्दधानो नाड्यहोरात्रयाजुष्मतीद्वारा पुरुषसंवत्सरचित्यानां समत्वमापाद्याहमग्निः संवत्सरात्मा प्रजापतिरेवेति ध्यायन्नग्निहोत्रं पयसा संवत्सरं जुह्वद्विद्यया सहितहोमवशात्प्रजापतिं संवत्सरात्मकं प्राप्य मृत्युमपजयतीत्यर्थः ।

एकीयमतमुपसंहृत्य तन्निन्दापूर्वकं मतान्तरमाह —

इत्येवमित्यादिना ।

एवं विद्वानित्युक्तं व्यक्तीकरोति —

यदुक्तमिति ।

तत्तथैव विद्वानेकाहोरात्रावच्छिन्नाहुतिमात्रेण जगद्रूपं प्रजापतिं प्राप्य मृत्युमुपजयतीत्याह —

तदेकेनेति ।

उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —

तदुच्यत इति ।

सर्वं हीत्यादिहेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याकरोति —

कः पुनरित्यादिना ।

यथोक्तदर्शनवशादेकयैवाऽऽहुत्या मृत्युमपजयतीत्यत्र ब्राह्मणान्तरं संवादयति —

अथेति ।

यथा संवत्सरमित्याद्युक्तं तथा ‘यदहरेवे’त्याद्यपि ब्राह्मणान्तरे सूचितमित्यर्थः ।

ब्रह्म हिरण्यगर्भभावी जीवः स्वयम्भु परस्यैव तदात्मनाऽवस्थानात्तपोऽतप्यत कर्मान्वतिष्ठत् । यत्कृतकं तदनित्यमिति न्यायेन कर्मनिन्दाप्रकारमाह —

तदैक्षतेति ।

कर्मसहायभूतामुपासनामुपदिशति —

हन्तेति ।

उपासनामनूद्य समुच्चयफलं कथयति —

तत्सर्वेष्विति ।

श्रेष्ठत्वेऽपि राजकुमारवदस्वातन्त्र्यमाशङ्क्याऽऽह —

स्वाराज्यमिति ।

अधिष्ठाय पालयितृत्वमाधिपत्यम् ।