यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया हि तपसाजनयत्पिता । एकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति । यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथक्पृथग्भोक्तृभ्यः प्रत्तानि, तदा प्रभृत्येव तैर्भोक्तृभिरद्यमानानि — तन्निमित्तत्वात्तेषां स्थितेः — सर्वदा नैरन्तर्येण ; कृतक्षयोपपत्तेश्च युक्तस्तेषां क्षयः ; न च तानि क्षीयमाणानि, जगतोऽविभ्रष्टरूपेणैवावस्थानदर्शनात् ; भवितव्यं च अक्षयकारणेन ; तस्मात् कस्मात्पुनस्तानि न क्षीयन्त इति प्रश्नः । तस्येदं प्रतिवचनम् — पुरुषो वा अक्षितिः । यथा असौ पूर्वमन्नानां स्रष्टासीत्पिता मेधया जायादिसम्बद्धेन च पाङ्क्तकर्मणा भोक्ता च तथा येभ्यो दत्तान्यन्नानि तेऽपि तेषामन्नानां भोक्तारोऽपि सन्तः पितर एव — मेधया तपसा च यतो जनयन्ति तान्यन्नानि । तदेतदभिधीयते पुरुषो वै योऽन्नानां भोक्ता सः अक्षितिः अक्षयहेतुः । कथमस्याक्षितित्वमित्युच्यते — सः हि यस्मात् इदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं क्रियाफलात्मकं पुनः पुनः भूयो भूयः जनयते उत्पादयति, धिया धिया तत्तत्कालभाविन्या तया तया प्रज्ञया, कर्मभिश्च वाङ्मनःकायचेष्टितैः ; यत् यदि ह यद्येतत्सप्तविधमन्नमुक्तं क्षणमात्रमपि न कुर्यात्प्रज्ञया कर्मभिश्च, ततो विच्छिद्येत भुज्यमानत्वात्सातत्येन क्षीयेत ह । तस्मात् यथैवायं पुरुषो भोक्ता अन्नानां नैरन्तर्येण यथाप्रज्ञं यथाकर्म च करोत्यपि ; तस्मात् पुरुषोऽक्षितिः, सातत्येन कर्तृत्वात् ; तस्मात् भुज्यमानान्यप्यन्नानि न क्षीयन्त इत्यर्थः । अतः प्रज्ञाक्रियालक्षणप्रबन्धारूढः सर्वो लोकः साध्यसाधनलक्षणः क्रियाफलात्मकः संहतानेकप्राणिकर्मवासनासन्तानावष्टब्धत्वात् क्षणिकः अशुद्धः असारः नदीस्रोतःप्रदीपसन्तानकल्पः कदलीस्तम्भवदसारः फेनमायामरीच्यम्भःस्वप्नादिसमः तदात्मगतदृष्टीनामविकीर्यमाणो नित्यः सारवानिव लक्ष्यते ; तदेतद्वैराग्यार्थमुच्यते — धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति — विरक्तानां ह्यस्मात् ब्रह्मविद्या आरब्धव्या चतुर्थप्रमुखेनेति । यो वैतामक्षितिं वेदेति । वक्ष्यमाणान्यपि त्रीण्यन्नानि अस्मिन्नवसरे व्याख्यातान्येवेति कृत्वा तेषां याथात्म्यविज्ञानफलमुपसंह्रियते — यो वा एतामक्षितिम् अक्षयहेतुं यथोक्तं वेद - पुरुषो वा अक्षितिः स हीदमन्न धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति — सोऽन्नमत्ति प्रतीकेनेत्यस्यार्थ उच्यते — मुखं मुख्यत्वं प्राधान्यमित्येतत् , प्राधान्येनैव, अन्नानां पितुः पुरुषस्याक्षितित्वं यो वेद, सोऽन्नमत्ति, नान्नं प्रति गुणभूतः सन् , यथा अज्ञः न तथा विद्वान् अन्नानामात्मभूतः — भोक्तैव भवति न भोज्यतामापद्यते । स देवानपिगच्छति स ऊर्जमुपजीवति — देवानपिगच्छति देवात्मभावं प्रतिपद्यते, ऊर्जममृतं च उपजीवतीति यदुक्तम् , सा प्रशंसा ; नापूर्वार्थोऽन्योऽस्ति ॥