बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च शब्दो वागेव सा । एषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥
पाङ्क्तस्य कर्मणः फलभूतानि यानि त्रीण्यन्नान्युपक्षिप्तानि तानि कार्यत्वात् विस्तीर्णविषयत्वाच्च पूर्वेभ्योऽन्नेभ्यः पृथगुत्कृष्टानि ; तेषां व्याख्यानार्थ उत्तरो ग्रन्थ आ ब्राह्मणपरिसमाप्तेः । त्रीण्यात्मनेऽकुरुतेति कोऽस्यार्थ इत्युच्यते — मनः वाक् प्राणः, एतानि त्रीण्यन्नानि ; तानि मनः वाचं प्राणं च आत्मने आत्मार्थम् अकुरुत कृतवान् सृष्ट्वा आदौ पिता । तेषां मनसोऽस्तित्वं स्वरूपं च प्रति संशय इत्यत आह — अस्ति तावन्मनः श्रोत्रादिबाह्यकरणव्यतिरिक्तम् ; यत एवं प्रसिद्धम् — बाह्यकरणविषयात्मसम्बन्धे सत्यपि अभिमुखीभूतं विषयं न गृह्णाति, किं दृष्टवानसीदं रूपमित्युक्तो वदति — अन्यत्र मे गतं मन आसीत् सोऽहमन्यत्रमना आसं नादर्शम् , तथेदं श्रुतवानसि मदीयं वच इत्युक्तः अन्यत्रमना अभूवम् नाश्रौषं न श्रुतवानस्मीति । तस्मात् यस्यासन्निधौ रूपादिग्रहणसमर्थस्यापि सतः चक्षुरादेः स्वस्वविषयसम्बन्धे रूपशब्दादिज्ञानं न भवति, यस्य च भावे भवति, तत् अन्यत् अस्ति मनो नामान्तःकरणं सर्वकरणविषययोगीत्यवगम्यते । तस्मात्सर्वो हि लोको मनसा ह्येव पश्यति मनसा शृणोति, तद्व्यग्रत्वे दर्शनाद्यभावात् ॥

साधनात्मकमन्नचतुष्टयमन्नाक्षयकारणाम्, अक्षित्वगुणप्रक्षेपेण पुरुषोऽपासनमस्य फलं चोक्तमिदानीमाब्राह्मणसमाप्तेरुत्तरग्रन्थस्य तात्पर्यमाह —

पाङ्क्तस्येत्यादिना ।

ब्राह्मणशेषस्य तात्पर्यमुक्त्वा मन्त्रभेदमनूद्याऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे —

त्रीणीत्यादिना ।

ज्ञानकर्मभ्यां सप्तान्नानि सृष्ट्वा चत्वारि भोक्तृभ्यो विभज्य त्रीण्यात्मार्थं कल्पादौ पिता कल्पितवानित्यर्थः ।

अन्यत्रेत्यादि वाक्यमुपादत्ते —

तेषामिति ।

षष्ठी निर्धारणार्था ।

तत्र मनसोऽस्तित्वमादौ साधयति —

अस्ति तावदिति ।

आत्मेन्द्रियार्थसान्निध्ये सत्यपि कदाचिदेवार्थधीर्जायमाना हेत्वन्तरमाक्षिपति । न चादृष्टादि सदिति युक्तं तस्य दृष्टसंपादत्वात्तस्मादर्थादिसान्निध्ये ज्ञानकादाचित्कत्वानुपपत्तिर्मनःसाधिकेत्यर्थः ।

लोकप्रसिद्धिरपि तत्र प्रमाणमित्याह —

यत इति ।

अतोऽस्ति बाह्यकारणादतिरिक्तं विषयग्राहि कारणमिति शेषः ।

तामेव प्रसिद्धिमुदाहरणनिष्ठतयोदाहरति —

किं दृष्टवानित्यादिना ।

तत्रैवान्वयव्यतिरेकावुपन्यस्यति —

तस्मादिति ।

यथोक्तार्थापत्तिलोकप्रसिद्धिवशादिति यावत् । विमतमात्माद्यतिरिक्तापेक्षं तस्मिन्सत्यपि कादाचित्वाद्घटवदित्यनुमानं (च) तच्छब्दार्थः । तस्मादनुमानादन्यदस्ति मनो नामेति संबन्धः रूपादिग्रहणसमर्थस्यापि सत इति प्रमातोच्यते ।

अन्तःकरणस्य चक्षुरादिभ्यो वैलक्षण्यमाह —

सर्वेति ।

समनन्तरवाक्यं फलितार्थविषयत्वेनाऽऽदत्ते —

तस्मादिति ।

तच्छब्देनोक्तं हेतुं स्पष्टयति —

तद्व्यग्रत्व इति ।