बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च शब्दो वागेव सा । एषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥
अस्तित्वे सिद्धे मनसः स्वरूपार्थमिदमुच्यते — कामः स्त्रीव्यतिकराभिलाषादिः, सङ्कल्पः प्रत्युपस्थितविषयविकल्पनं शुक्लनीलादिभेदेन, विचिकित्सा संशयज्ञानम् , श्रद्धा अदृष्टार्थेषु कर्मसु आस्तिक्यबुद्धिः देवतादिषु च, अश्रद्धा तद्विपरीता बुद्धिः, धृतिः धारणं देहाद्यवसाने उत्तम्भनम् , अधृतिः तद्विपर्ययः, ह्रीः लज्जा, धीः प्रज्ञा, भीः भयम् इत्येतदेवमादिकं सर्वं मन एव ; मनसोऽन्तःकरणस्य रूपाण्येतानि । मनोऽस्तित्वं प्रत्यन्यच्च कारणमुच्यते — तस्मान्मनो नामास्त्यन्तःकरणम् , यस्माच्चक्षुषो ह्यगोचरे पृष्ठतोऽप्युपस्पृष्टः केनचित् हस्तस्यायं स्पर्शः जानोरयमिति विवेकेन प्रतिपद्यते ; यदि विवेककृत् मनो नाम नास्ति तर्हि त्वङ्मात्रेण कुतो विवेकप्रतिपत्तिः स्यात् ; यत्तत् विवेकप्रतिपत्तिकारणं तन्मनः ॥

कामादिवाक्यमवतार्य व्याकुर्वन्मनसः स्वरूपं प्रति संशयं निरस्यति —

अस्तित्व इति ।

अश्रद्धादिवदकामादिरपि विवक्षितोऽत्रेति मत्वा मनोबुद्ध्योरेकत्वमुपेत्योपसंहरति —

इत्येतदिति ।

द्वैतप्रवृत्त्युन्मुखं मनो भोक्तृकर्मवशान्नार्थाकारेण विवर्तत इत्यभिप्रेत्यानन्तरवाक्यमवतारयति —

मनोस्तित्वमिति ।

तदेवान्यत्कारणं स्फोरयति —

यस्मादिति ।

तस्मादस्ति विवेककारणमन्तःकरणमिति संबन्धः ।

चक्षुरसंप्रयोगात्तेन स्पर्शविशेषादर्शनेऽपि संप्रयुक्तया त्वचा विनाऽपि मनो विशेषदर्शनं स्यादित्याशङ्क्याऽऽह —

यदीति ।

त्वङ्मात्रस्य स्पर्शमात्रग्राहित्वेन विवेकत्वायोगादित्यर्थः ।

विवेचके कारणान्तरे सत्यपि कुतो मनःसिद्धिस्तत्राऽऽह —

यत्तदिति ।