बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च शब्दो वागेव सा । एषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥
अस्ति तावन्मनः, स्वरूपं च तस्याधिगतम् । त्रीण्यन्नानीह फलभूतानि कर्मणां मनोवाक्प्राणाख्यानि अध्यात्ममधिभूतमधिदैवं च व्याचिख्यासितानि । तत्र आध्यात्मिकानां वाङ्मनःप्राणानां मनो व्याख्यातम् । अथेदानीं वाग्वक्तव्येत्यारम्भः — यः कश्चित् लोके शब्दो ध्वनिः ताल्वादिव्यङ्ग्यः प्राणिभिः वर्णादिलक्षणः इतरो वा वादित्रमेघादिनिमित्तः सर्वो ध्वनिः वागेव सा । इदं तावद्वाचः स्वरूपमुक्तम् । अथ तस्याः कार्यमुच्यते — एषा वाक् हि यस्मात् अन्तम् अभिधेयावसानम् अभिधेयनिर्णयम् आयत्ता अनुगता । एषा पुनः स्वयं नाभिधेयवत् प्रकाश्या अभिधेयप्रकाशिकैव प्रकाशात्मकत्वात् प्रदीपादिवत् ; न हि प्रदीपादिप्रकाशः प्रकाशान्तरेण प्रकाश्यते ; तद्वत् वाक् प्रकाशिकैव स्वयं न प्रकाश्या — इति अनवस्थां श्रुतिः परिहरति — एषा हि न प्रकाश्या, प्रकाशकत्वमेव वाचः कार्यमित्यर्थः ॥

वृत्तं कीर्तयति —

अस्ति तावदिति ।

उत्तरग्रन्थमवतारयितुं भूमिकां करोति —

त्रीणीति ।

एवं भूमिकामारचय्याऽऽध्यात्मिकवाग्व्याख्यानार्थं यः कश्चेत्यादि वाक्यमादाय व्याकरोति —

अथेत्यादिना ।

शब्दपर्यायो ध्वनिर्द्विविधो वर्णात्मकोऽवर्णात्मकश्च । तत्राऽऽद्यो व्यवहर्तृभिस्ताल्वादिस्थानव्यङ्ग्यो द्वितीयो मेघादिकृतः । स सर्वोऽपि वागेवेत्यर्थः ।

प्रकाशमात्रं वागित्युक्त्वा तत्र प्रमाणमाह —

इदं तावदिति ।

तस्मादभिदेयनिर्णायकत्वान्नासावपलापार्हेति शेषः ।

वाचोऽपि प्रकाश्यत्वात्कथं प्रकाशकमन्त्रवागित्युक्तमित्याशङ्क्याऽऽह —

एषेति ।

दृष्टान्तं समर्थयते —

न हीति ।

प्रकारान्तरेण सजातीयेनेति शेषः । प्रकाशिकाऽपि वाक्प्रकाश्या चेत्तत्रापि प्रकाशकान्तरमेष्टव्यमित्यनवस्था स्यात्तन्निरासार्थमेषा हि नेति श्रुतिः प्रकाशकमात्रं वागित्याह । स्वपरनिर्वाहकस्तुशब्दः ।

तस्मात्प्रकाशकत्वं कार्यं यत्र दृश्यते तत्र वाचः स्वरूपमनुगतमेवेत्याह —

तद्वदित्यादिना ।