बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च शब्दो वागेव सा । एषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥
अथ प्राण उच्यते — प्राणः मुखनासिकासञ्चार्या हृदयवृत्तिः प्रणयनात्प्राणः, अपनयनान्मूत्रपुरीषादेरपानः अधोवृत्तिः आ नाभिस्थानः, व्यानः व्यायमनकर्मा व्यानः प्राणापानयोः सन्धिः वीर्यवत्कर्महेतुश्च, उदानः उत्कर्षोर्ध्वगमनादिहेतुः आपादतलमस्तकस्थान ऊर्ध्ववृत्तिः, समान समं नयनाद्भुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता, अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टाभिसम्बन्धिनी वृत्तिः — एवं यथोक्तं प्राणादिवृत्तिजातमेतत्सर्वं प्राण एव । प्राण इति वृत्तिमानाध्यात्मिकः अन उक्तः ; कर्म च अस्य वृत्तिभेदप्रदर्शनेनैव व्याख्यातम् ; व्याख्यातान्याध्यात्मिकानि मनोवाक्प्राणाख्यानि अन्नानि ; एतन्मय एतद्विकारः प्राजापत्यैरेतैर्वाङ्मनःप्राणैरारब्धः । कोऽसावयं कार्यकरणसङ्घातः ? आत्मा पिण्डः आत्मस्वरूपत्वेनाभिमतोऽविवेकिभिः — अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङ्मयो मनोमयः प्राणमय इति स्फुटीकरणम् ॥

आध्यात्मिकप्राणविषयं वाक्यमवतार्य व्याकरोति —

अथेति ।

मुखादौ संचार्या संचरणार्हा हृदयसंबन्धिनी या वायुवृत्तिः, तत्र प्राणशब्दप्रवृत्तौ निमित्तमाह —

प्रणयनादिति ।

पुरतो निःसरणादिति यावत् । हृदयादधो देशे वृत्तिरस्येत्यधोवृत्तिरानाभिस्थानो हृदयादारभ्य नाभिपर्यन्तं वर्तमान इति यावत् । व्यायमनं प्राणापानयोर्नियमनं कर्मास्येति तथोक्तः । वीर्यवत्कर्मारण्यामग्न्युत्पादनादि । उत्कर्षो देहे पुष्टिः । आदिपदेनोत्क्रान्तिरुक्ता ।

प्राणशब्देनानशब्दस्य पुनरुक्तिमाशङ्क्याऽऽह —

अन इत्येषामिति ।

तथाऽपि तृतीयस्य प्राणशब्दस्य ताभ्यां पुनरुक्तिरित्याशङ्क्याऽऽह —

प्राण इतीति ।

साधारणासाधारणवृत्तिमान्प्राण इत्यपौनरुक्त्यमित्यर्थः ।

मनसो दर्शनादिवद्वाचोऽभिधेयप्रकाशनवच्च प्राणस्यापि कार्यं वक्तव्यमित्याशङ्क्याऽऽह —

कर्म चेति ।

एतन्मय इत्यत्र मयटो विकारार्थत्वं वृत्तसंकीर्तनपूर्वकं कथयति —

व्याख्यातानीति ।

आध्यात्मिकानां वागादीनामनारम्भकत्वं वारयति —

प्राजापत्यैरिति ।

आरब्धस्वरूपं प्रश्नपूर्वकमनन्तरवाक्येन निर्धारयति —

कोऽसाविति ।

कार्यकरणसंघाते कथमात्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —

आत्मस्वरूपत्वेनेति ।

वाङ्मय इत्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह —

अविशेषेणेति ॥३॥