पश्वन्ने व्याख्याते प्रश्नरूपं मन्त्रपदमादत्ते —
कस्मादिति ।
ननु चत्वार्यन्नानि व्याख्यातानि त्रीणि व्याचिख्यासितानि तेष्वव्याख्यातेषु कस्मादित्यादिप्रश्नः कस्मादित्याशङ्क्य साधनेषूक्तेषु साध्यानामपि तेषामर्थादुक्तत्वमस्तीत्यभिप्रेत्य प्रश्नप्रवृत्तिं मन्वानो व्याचष्टे —
यदेति ।
सर्वदेत्यस्य व्याख्या नैरन्तर्येणेति ।
अन्नानां सदा भोक्तृभिरविद्यमानत्वे हेतुमाह —
तन्निमित्तत्वादिति ।
भोक्तॄणां स्थितेरन्ननिमित्तत्वात्तैः सदाऽद्यमानानि तानि यवपूर्णकुसूलवद्भवन्ति क्षीणानीत्यर्थः ।
किञ्च ज्ञानकर्मफलत्वादन्नानां यत्कृतकं तदनित्यमिति न्यायेन क्षयः संभवतीत्याह —
कृतेति ।
अस्तु तर्हि तेषां क्षयो नेत्याह —
न चेति ।
भवतु तर्हि स्वभावादेव सप्तान्नात्मकस्य जगतोऽक्षीणत्वं नेत्याह —
भवितव्यञ्चेति ।
स्वभाववादस्यातिप्रसंगित्वादित्यर्थः ।
प्रश्नं निगमयति —
तस्मादिति ।
प्रतिवचनमादाय व्याचष्टे —
तस्येत्यादिना ।
तेषां पितृत्वे हेतुमाह —
मेधयेति ।
भोगकालेऽपि विहितप्रतिषिद्धज्ञानकर्मसंभवात्प्रवाहरूपेणान्नक्षयः संभवतीत्यर्थः ।
तत्र प्रतिज्ञाभागमुपादायाक्षराणि व्याचष्टे —
तदेतदिति ।
हेतुभागमुत्थाप्य विभजते —
कथमित्यादिना ।
तस्मात्तदक्षयः संभवति प्रवाहात्मनेति शेषः ।
उक्तहेतुं व्यतिरेकद्वारोपपादयितुं यद्धैतदित्यादिवाक्यं तद्व्याचष्टे —
यदिति ।
अन्वयव्यतिरेकसिद्धं हेतुं निगमयति —
तस्मादिति ।
तथा यथाप्रज्ञमिति पठितव्यम् ।
साध्यं निगमयति —
तस्मादिति ।
अक्षयहेतौ सिद्धे फलितमाह —
तस्माद्भुज्यमानानीति ।
धिया धियेत्यादिश्रुतेः स हीदमित्यत्रोक्तं परिहारं प्रपञ्चयन्त्याः सप्तविधान्नस्य कार्यत्वात्प्रतिक्षणध्वंसित्वेऽपि पुनः पुनः क्रियमाणत्वात्प्रवाहात्मना तदचलं मन्दाः पश्यन्तीत्यस्मिन्नर्थे तात्पर्यमाह —
अत इति ।
प्रज्ञाक्रियाभ्यां हेतुभ्यां लक्ष्यते व्यावर्त्यते निष्पाद्यते यः प्रबन्धः समुदायस्तदारूढस्तदात्मकः सर्वो लोकश्चेतनाचेतनात्मको द्वैतप्रपञ्चः साध्यत्वेन साधनत्वेन च वर्तमानो ज्ञानकर्मफलभूतः क्षणिकोऽपि नित्य इव लक्ष्यते । तत्र हेतुः —
संहतेति ।
संहतानां मिथः सहायत्वेन स्थितानामनेकेषां प्राणिनामनन्तानि कर्माणि वासनाश्च तत्सन्तानेनावष्टब्धत्वाद्दृढीकृतत्वादिति यावत् ।
प्रातीतिकमेव संसारस्य स्थैर्यं न तात्त्विकमिति वक्तुं विशिनष्टि —
नदीति ।
असारोऽपि सारवद्भातीत्यत्र दृष्टान्तमाह —
कदलीति ।
अशुद्धोऽपि शुद्धवद्भातीत्यत्रोदाहरणमाह —
मायेत्यादिना ।
अनेकोदाहरणं संसारस्यानेकरूपत्वद्योतनार्थम् ।
केषां पुनरेष संसारोऽन्यथा भातीत्यपेक्षायां “संसाराय पराग्दृशामि”ति न्यायेनाऽऽह —
तदात्मेति ।
किमिति प्रतिक्षणप्रध्वंसि जगदिति श्रुत्योच्यते तत्राऽऽह —
तदेतदिति ।
वैराग्यमपि कुत्रोपयुज्यते तत्राऽऽह —
विरक्तानां हीति ।
इति वैराग्यमर्थवदिति शेषः ।
पुरुषोऽन्नानामक्षयहेतुरित्युपपाद्य तज्ज्ञानमनूद्य तत्फलमाह —
यो वैतामित्यादिना ।
यथोक्तमनुवदति —
पुरुष इति ।
फलविषयं मन्त्रपदमुपादाय तदीयं ब्राह्मणमवतार्य व्याकरोति —
सोऽन्नमित्यादिना ।
यथोक्तोपासनावतो यथोक्तं फलम् । प्राधान्येनैव सोऽन्नमत्तीति संबन्धः ।
विदुषोऽन्नं प्रति गुणत्वाभावे हेतुमाह —
अन्नानामिति ।
उक्तमर्थं संगृह्णाति —
भोक्तैवेति ।
प्रशस्तिसिद्धये प्रपञ्चयति —
स देवानित्यादिना ॥२॥