साधनात्मकमन्नचतुष्टयमन्नाक्षयकारणाम्, अक्षित्वगुणप्रक्षेपेण पुरुषोऽपासनमस्य फलं चोक्तमिदानीमाब्राह्मणसमाप्तेरुत्तरग्रन्थस्य तात्पर्यमाह —
पाङ्क्तस्येत्यादिना ।
ब्राह्मणशेषस्य तात्पर्यमुक्त्वा मन्त्रभेदमनूद्याऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे —
त्रीणीत्यादिना ।
ज्ञानकर्मभ्यां सप्तान्नानि सृष्ट्वा चत्वारि भोक्तृभ्यो विभज्य त्रीण्यात्मार्थं कल्पादौ पिता कल्पितवानित्यर्थः ।
अन्यत्रेत्यादि वाक्यमुपादत्ते —
तेषामिति ।
षष्ठी निर्धारणार्था ।
तत्र मनसोऽस्तित्वमादौ साधयति —
अस्ति तावदिति ।
आत्मेन्द्रियार्थसान्निध्ये सत्यपि कदाचिदेवार्थधीर्जायमाना हेत्वन्तरमाक्षिपति । न चादृष्टादि सदिति युक्तं तस्य दृष्टसंपादत्वात्तस्मादर्थादिसान्निध्ये ज्ञानकादाचित्कत्वानुपपत्तिर्मनःसाधिकेत्यर्थः ।
लोकप्रसिद्धिरपि तत्र प्रमाणमित्याह —
यत इति ।
अतोऽस्ति बाह्यकारणादतिरिक्तं विषयग्राहि कारणमिति शेषः ।
तामेव प्रसिद्धिमुदाहरणनिष्ठतयोदाहरति —
किं दृष्टवानित्यादिना ।
तत्रैवान्वयव्यतिरेकावुपन्यस्यति —
तस्मादिति ।
यथोक्तार्थापत्तिलोकप्रसिद्धिवशादिति यावत् । विमतमात्माद्यतिरिक्तापेक्षं तस्मिन्सत्यपि कादाचित्वाद्घटवदित्यनुमानं (च) तच्छब्दार्थः । तस्मादनुमानादन्यदस्ति मनो नामेति संबन्धः रूपादिग्रहणसमर्थस्यापि सत इति प्रमातोच्यते ।
अन्तःकरणस्य चक्षुरादिभ्यो वैलक्षण्यमाह —
सर्वेति ।
समनन्तरवाक्यं फलितार्थविषयत्वेनाऽऽदत्ते —
तस्मादिति ।
तच्छब्देनोक्तं हेतुं स्पष्टयति —
तद्व्यग्रत्व इति ।