कामादिवाक्यमवतार्य व्याकुर्वन्मनसः स्वरूपं प्रति संशयं निरस्यति —
अस्तित्व इति ।
अश्रद्धादिवदकामादिरपि विवक्षितोऽत्रेति मत्वा मनोबुद्ध्योरेकत्वमुपेत्योपसंहरति —
इत्येतदिति ।
द्वैतप्रवृत्त्युन्मुखं मनो भोक्तृकर्मवशान्नार्थाकारेण विवर्तत इत्यभिप्रेत्यानन्तरवाक्यमवतारयति —
मनोस्तित्वमिति ।
तदेवान्यत्कारणं स्फोरयति —
यस्मादिति ।
तस्मादस्ति विवेककारणमन्तःकरणमिति संबन्धः ।
चक्षुरसंप्रयोगात्तेन स्पर्शविशेषादर्शनेऽपि संप्रयुक्तया त्वचा विनाऽपि मनो विशेषदर्शनं स्यादित्याशङ्क्याऽऽह —
यदीति ।
त्वङ्मात्रस्य स्पर्शमात्रग्राहित्वेन विवेकत्वायोगादित्यर्थः ।
विवेचके कारणान्तरे सत्यपि कुतो मनःसिद्धिस्तत्राऽऽह —
यत्तदिति ।