बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७ ॥
तथा त्रयो वेदा इत्यादीनि वाक्यानि ऋज्वर्थानि ॥
पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७ ॥
तथा त्रयो वेदा इत्यादीनि वाक्यानि ऋज्वर्थानि ॥

त्रिलोकीवाक्यवदुत्तरं वाक्यं विज्ञातादिवाक्यात्प्राक्तनं नेतव्यमित्याह —

तथेति ॥५–६–७॥