बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं वाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वावति ॥ ८ ॥
विज्ञातं विजिज्ञास्यम् अविज्ञातम् एत एव ; तत्र विशेषः यत्किञ्च विज्ञातं विस्पष्टं ज्ञातं वाचस्तद्रूपम् ; तत्र स्वयमेव हेतुमाह — वाक् हि विज्ञाता, प्रकाशात्मकत्वात् ; कथमविज्ञाता भवेत् या अन्यानपि विज्ञापयति ; ‘वाचैव सम्राड्बन्धुः प्रज्ञायते’ (बृ. उ. ४ । १ । २) इति हि वक्ष्यति । वाग्विशेषविद इदं फलमुच्यते — वागेव एनं यथोक्तवाग्विभूतिविदं तत् विज्ञातं भूत्वा अवति पालयति, विज्ञातरूपेणैवास्यान्नं भोज्यतां प्रतिपद्यत इत्यर्थः ॥

विज्ञातादिवाक्यमादाय तद्गतं विशेषं दर्शयति —

विज्ञातमिति ।

विज्ञातं सर्वं वाचो रूपमिति प्रतिज्ञातोऽर्थः सप्तम्यर्थः ।

प्रकाशकत्वेऽपि कथं वाचो विज्ञातत्वमित्याशङ्क्याऽऽह —

कथमिति ।

प्रकाशात्मकत्वमेव कुतो वाचः सिद्धमित्याशङ्क्याऽऽह —

वाचेति ।

वाग्विशेषस्तद्विभूतिः ॥८॥ सन्दिह्यमानाकारत्वात्संकल्पविकल्पात्मकत्वादिति यावत् । तस्मात्सर्वं विजिज्ञास्यं मनोरूपमिति संबन्धः । पूर्ववद्वाग्विभूतिविदो यथा फलमुक्तं तद्वदिति यावत् ॥९॥