बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वावति ॥ १० ॥
तथा यत्किञ्च अविज्ञातं विज्ञानागोचरं न च सन्दिह्यमानम् , प्राणस्य तद्रूपम् ; प्राणो ह्यविज्ञातः अविज्ञातरूपः हि यस्मात् प्राणः — अनिरुक्तश्रुतेः । विज्ञातविजिज्ञास्याविज्ञातभेदेन वाङ्मनःप्राणविभागे स्थिते त्रयो लोका इत्यादयो वाचनिका एव । सर्वत्र विज्ञातादिरूपदर्शनाद्वचनादेव नियमः स्मर्तव्यः । प्राण एनं तद्भूत्वावति — अविज्ञातरूपेणैवास्य प्राणोऽन्नं भवतीत्यर्थः । शिष्यपुत्रादिभिः सन्दिह्यमानाविज्ञातोपकारा अप्याचार्यपित्रादयो दृश्यन्ते ; तथा मनःप्राणयोरपि सन्दिह्यमानाविज्ञातयोरन्नत्वोपपत्तिः ॥

अनिरुक्तश्रुतेरविज्ञातरूपो यस्मात्प्राणस्तस्मादविज्ञातं सर्वं प्राणस्य रूपमिति योजना । विज्ञातादिरूपातिरेकेण लोकवेदाद्यभावाद्विज्ञातादिरूपाभिधानेनैव वागादीनां लोकाद्यात्मत्वे सिद्धे किमर्थं त्रयो लोका इत्यादिवाक्यमित्याशङ्क्य तथैव ध्यानार्थमित्याह —

विज्ञातेति ।

भूरादिष्वेकैकत्र विज्ञातादिदृष्टेर्वागादेश्च व्यवस्थितत्वात्कुतो विज्ञातादेर्वागाद्यात्मकत्वं नियन्तुं शक्यमित्याशङ्क्याऽऽह —

सर्वत्रेति ।

प्राणविभूतिविदः संपति फलं कथयति —

प्राण इति ।

लोके विज्ञातस्यैव भोज्यत्वोपलम्भादविज्ञातादिरूपेण प्राणादेर्न भोज्यत्वोपपत्तिरित्याशङ्क्याऽऽह —

शिष्येति ।

शिष्यैरविवेकिभिः सन्दिह्यमानोपकारा अपि गुरवस्तेषां भोज्यतामपद्यामाना दृश्यन्ते पुत्रादिभिश्चातिबालैरविज्ञातोपकाराः पित्रादयस्तेषां भोज्यत्वमापद्यन्ते तथा प्रकृतेऽपि संभवतीत्यर्थः ॥१०॥