विज्ञातादिवाक्यमादाय तद्गतं विशेषं दर्शयति —
विज्ञातमिति ।
विज्ञातं सर्वं वाचो रूपमिति प्रतिज्ञातोऽर्थः सप्तम्यर्थः ।
प्रकाशकत्वेऽपि कथं वाचो विज्ञातत्वमित्याशङ्क्याऽऽह —
कथमिति ।
प्रकाशात्मकत्वमेव कुतो वाचः सिद्धमित्याशङ्क्याऽऽह —
वाचेति ।
वाग्विशेषस्तद्विभूतिः ॥८॥ सन्दिह्यमानाकारत्वात्संकल्पविकल्पात्मकत्वादिति यावत् । तस्मात्सर्वं विजिज्ञास्यं मनोरूपमिति संबन्धः । पूर्ववद्वाग्विभूतिविदो यथा फलमुक्तं तद्वदिति यावत् ॥९॥