बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ ११ ॥
तस्यै तस्याः वाचः प्रजापतेरन्नत्वेन प्रस्तुतायाः पृथिवी शरीरं बाह्य आधारः, ज्योतीरूपं प्रकाशात्मकं करणं पृथिव्या आधेयभूतम् अयं पार्थिवोऽग्निः । द्विरूपा हि प्रजापतेः वाक् कार्यं आधारः अप्रकाशः, करणं च आधेयं प्रकाशः तदुभयं पृथिव्यग्नी वागेव प्रजापतेः । तत् तत्र यावत्येव यावत्परिमाणैव अध्यात्माधिभूतभेदभिन्ना सती वाग्भवति, तत्र सर्वत्र आधारत्वेन पृथिवी व्यवस्थिता तावत्येव भवति कार्यभूता ; तावानयमग्निः आधेयः — करणरूपो ज्योतीरूपेण पृथिवीमनुप्रविष्टस्तावानेव भवति । समानमुत्तरम् ॥

समनन्तरसन्दर्भस्य तात्पर्यमुक्त्वा वाक्याक्षराणि योजयति —

तस्या इति ।

कथमाधाराधेयभावो वाचो निर्दिश्यते तत्राऽऽह —

द्विरूपा हीति ।

उक्तमर्थं संक्षिप्य निगमयति —

तदुभयमिति ।

अध्यात्ममधिभूतं च या वाक्परिच्छिन्ना तस्यास्तुल्यपरिणामित्वमाधिदैविकवागंशत्वादंशांशिनोश्च तादात्म्यात्तया सह दर्शयति —

तत्तत्रेति ।

तावानयमग्निरिति प्रतीकमादाय व्याकरोति —

आधेय इति ।

समानमुत्तरमित्यस्यायमर्थः अध्यात्ममधिभूतं च मनःप्राणयोराधिदैविकमनःप्राणांशत्वात्तादात्म्याभिप्रायेण तुल्यपरिमाणत्वमुच्यते तथा च वाचा समानं प्राणादावुत्तरवाक्ये कथ्यमानं समानपरिमाणत्वमिति ॥११॥