बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यस्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनं समैतां ततः प्राणोऽजायत स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद ॥ १२ ॥
अथैतस्य प्राजापत्यान्नोक्तस्यैव मनसः द्यौः द्युलोकः शरीरं कार्यम् आधारः, ज्योतीरूपं करणम् आधेयः असावादित्यः । तत् तत्र यावत्परिमाणमेवाध्यात्ममधिभूतं वा मनः, तावती तावद्विस्तारा तावत्परिमाणा मनसो ज्योतीरूपस्य करणस्य आधारत्वेन व्यवस्थिता द्यौः ; तावानसावादित्यो ज्योतीरूपं करणमाधेयम् ; तावग्न्यादित्यौ वाङ्मनसे आधिदैविके मातापितरौ मिथुनं मैथुन्यम् इतरेतरसंसर्गं समैतां समगच्छेताम् — मनसा आदित्येन प्रसूतं पित्रा, वाचा अग्निना मात्रा प्रकाशितं कर्म करिष्यामीति — अन्तरा रोदस्योः । ततः तयोरेव सङ्गमनात् प्राणो वायुरजायत परिस्पन्दाय कर्मणे । यो जातः स इन्द्रः परमेश्वरः ; न केवलमिन्द्र एव, असपत्नः अविद्यमानः सपत्नो यस्य ; कः पुनः सपत्नो नाम ? द्वितीयो वै प्रतिपक्षत्वेनोपगतः स द्वितीयः सपत्न इत्युच्यते । तेन द्वितीयत्वेऽपि सति वाङ्मनसे न सपत्नत्वं भजेते ; प्राणं प्रति गुणभावोपगते एव हि ते अध्यात्ममिव । तत्र प्रासङ्गिकासपत्नविज्ञानफलमिदम् — नास्य विदुषः सपत्नः प्रतिपक्षो भवति, य एवं यथोक्तं प्राणम् असपत्नं वेद ॥

आधिदैविकवाग्विभूतिव्याख्यानानन्तर्यमथशब्दार्थः । मनसो द्वैरूप्यमुक्त्वा व्याप्तिमभिधत्ते —

तत्तत्रेति ।

मन एवास्याऽऽत्मा वाग्जाया प्राणः प्रजेत्यध्यात्मं मन एव पिता वाङ्माता प्राणः प्रजेत्यधिभूतं च वाङ्मनसयोः प्राणस्य प्रजात्वमुक्तं तथाऽधिदैवेऽपि तस्य तत्प्रजात्वं वाच्यमित्यभिप्रेत्याऽऽह —

ताविति ।

कथमादित्यस्य मनसः प्राणं प्रति पितृत्वं वाचो वाऽग्नेर्मातृत्वं तत्राऽऽह —

मनसेति ।

सावित्रं पाकमाग्नेयं च प्रकाशमृते कार्यसिद्ध्यदर्शनात्तयोः सिद्धं जनकत्वमित्यर्थः ।

कर्मशब्देन कार्यमुच्यते तत्करिष्यामीति प्रत्येकमभिसन्धिपूर्वकमादित्याग्न्योर्द्यावापृथिव्योरन्तराले संगतिरासीदित्याह —

कर्मेति ।

संगतिकार्यमभिप्रायानुसारि दर्शयति —

तत इति ।

वायोरिन्द्रत्वासपत्नत्वगुणविशिष्टस्योपासनमभिप्रेत्याऽऽह —

यो जात इति ।

द्वितीयस्य सपत्नत्वे वागादेरपि तथात्वं स्यादित्याशङ्क्याऽऽह —

प्रतिपक्षत्वेनेति ।

यथोक्तसपत्नव्याख्यानफलमाह —

तेनेति ।

असपत्नगुणकप्राणोपासने फलवाक्यं प्रमाणयति —

तत्रेति ।

प्राणस्यासपत्नत्वे सिद्धे सतीति यावत् । प्रासंगिकत्वं प्रजोत्पत्तिप्रङ्गादागतत्वम् ॥१२॥