अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः सर्वेऽनन्ताः स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयत्यथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ १३ ॥
अथैतस्य प्रकृतस्य प्राजापत्यान्नस्य प्राणस्य, न प्रजोक्तस्य अनन्तरनिर्दिष्टस्य, आपः शरीरं कार्यं करणाधारः ; पूर्ववत् ज्योतीरूपमसौ चन्द्रः ; तत्र यावानेव प्राणः यावत्परिमाणः अध्यात्मादिभेदेषु, तावद्व्याप्तिमत्य आपः तावत्परिमाणाः ; तावानसौ चन्द्र अबाधेयः तास्वप्स्वनुप्रविष्टः करणभूतः अध्यात्ममधिभूतं च तावद्व्याप्तिमानेव । तान्येतानि पित्रा पाङ्क्तेन कर्मणा सृष्टानि त्रीण्यन्नानि वाङ्मनः प्राणाख्यानि ; अध्यात्ममधिभूतं च जगत्समस्तम् एतैर्व्याप्तम् ; नैतेभ्योऽन्यदतिरिक्तं किञ्चिदस्ति कार्यात्मकं करणात्मकं वा । समस्तानि त्वेतानि प्रजापतिः त एते वाङ्मनःप्राणाः सर्व एव समाः तुल्याः व्याप्तिमन्तः यावत्प्राणिगोचरं साध्यात्माधिभूतं व्याप्य व्यवस्थिताः ; अत एवानन्ता यावत्संसारभाविनो हि ते । न हि कार्यकरणप्रत्याख्यानेन संसारोऽवगम्यते ; कार्यकरणात्मका हि त इत्युक्तम् । स यः कश्चित् ह एतान् प्रजापतेरात्मभूतान् अन्तवतः परिच्छिन्नान् अध्यात्मरूपेण वा अधिभूतरूपेण वा उपास्ते, स च तदुपासनानुरूपमेव फलम् अन्तवन्तं लोकं जयति, परिच्छिन्न एव जायते, नैतेषामात्मभूतो भवतीत्यर्थः । अथ पुनः यः ह एताननन्तान् सर्वात्मकान् सर्वप्राण्यात्मभूतान् अपरिच्छिन्नान् उपास्ते, सोऽनन्तमेव लोकं जयति ॥