अन्नत्रये फलवद्ध्यानविषये व्याख्याते वक्तव्याभावात्किमुत्तरग्रन्थेनेत्याशङ्क्य वृत्तं कीर्तयति —
पितेति ।
तेषां तत्फलत्वे प्रमाणाभावमादाय शङ्कते —
तत्रेति ।
प्रकृतं व्याख्यानं सप्तम्यर्थः ।
कार्यलिङ्गकमनुमानं प्रमाणयन्नुत्तरमाह —
उच्यत इति ।
अनुमानमेव स्फुटयितुमन्नेषु पाङ्क्तत्वावगतिं दर्शयति —
यस्मादिति ।
तस्मात्तत्कारणमपि तादृशमिति शेषः ।
कथं पुनस्तस्य पाङ्क्तत्वधीरित्याशङ्ख्याऽऽह —
वित्तेति ।
आत्मा जाया प्रजेति त्रयं संग्रहीतुमपिशब्दः ।
उक्तं हेतुं व्यक्तीकुर्वन्नुक्तं स्मारयति —
तत्रेति ।
अन्नत्रयं सप्तम्यर्थः ।
तथाऽपि कथं पाङ्क्तत्वमित्याशङ्क्यानन्तरग्रन्थमवतारयति —
तत्र वित्तेति ।
सप्तमी पूर्ववत् ।