बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥
स एष संवत्सरः — योऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः, स एष संवत्सरात्मना विशेषतो निर्दिश्यते । षोडशकलः षोडश कला अवयवा अस्य सोऽयं षोडशकलः संवत्सरः संवत्सरात्मा कालरूपः । तस्य च कालात्मनः प्रजापतेः रात्रय एव अहोरात्राणि — तिथय इत्यर्थः — पञ्चदशा कलाः । ध्रुवैव नित्यैव व्यवस्थिता अस्य प्रजापतेः षोडशी षोडशानां पूरणी कला । रात्रिभिरेव तिथिभिः कलोक्ताभिः आपूर्यते च अपक्षीयते च प्रतिपदाद्याभिर्हि चन्द्रमाः प्रजापतिः शुक्लपक्ष आपूर्यते कलाभिरुपचीयमानाभिर्वर्धते यावत्सम्पूर्णमण्डलः पौर्णमास्याम् ; ताभिरेवापचीयमानाभिः कलाभिरपक्षीयते कृष्णपक्षे यावद्ध्रुवैका कला व्यवस्थिता अमावास्यायाम् । स प्रजापतिः कालात्मा अमावास्याम् अमावास्यायाम् रात्रिं रात्रौ या व्यवस्थिता ध्रुवा कलोक्ता एतया षोडश्या कलया सर्वमिदं प्राणभृत् प्राणिजातम् अनुप्रविश्य — यदपः पिबति यच्चौषधीरश्नाति तत्सर्वमेव ओषध्यात्मना सर्वं व्याप्य — अमावास्यां रात्रिमवस्थाय ततोऽपरेद्युः प्रातर्जायते द्वितीयया कलया संयुक्तः । एवं पाङ्क्तात्मकोऽसौ प्रजापतिः — दिवादित्यौ मनः पिता, पृथिव्यग्नी वाक् जाया माता, तयोश्च प्राणः प्रजा, चान्द्रमस्यस्तिथयः कला वित्तम् — उपचयापचयधर्मित्वात् वित्तवत् , तासां च कलानां कालावयवानां जगत्परिणामहेतुत्वं कर्म ; एवमेष कृत्स्नः प्रजापतिः — जाया मे स्यात् , अथ प्रजायेय, अथ वित्तं मे स्यात् , अथ कर्म कुर्वीय — इत्येषणानुरूप एव पाङ्क्तस्य कर्मणः फलभूतः संवृत्तः ; कारणानुविधायि हि कार्यमिति लोकेऽपि स्थितिः । यस्मादेष चन्द्र एतां रात्रिं सर्वप्राणिजातमनुप्रविष्टो ध्रुवया कलया वर्तते, तस्माद्धेतोः एताममावास्यां रात्रिं प्राणभृतः प्राणिनः प्राणं न विच्छिन्द्यात् — प्राणिनं न प्रमापयेदित्येतत् — अपि कृकलासस्य — कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिः दृष्टोऽप्यमङ्गल इति कृत्वा । ननु प्रतिषिद्धैव प्राणिहिंसा ‘अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः’ इति ; बाढं प्रतिषिद्धा, तथापि न अमावास्याया अन्यत्र प्रतिप्रसवार्थं वचनं हिंसायाः कृकलासविषये वा, किं तर्हि एतस्याः सोमदेवताया अपचित्यै पूजार्थम् ॥

अवतारितं ग्रन्थं व्याचष्टे —

योऽयमित्यादिना ।

कथं प्रजापतेस्तिथिभिरापूर्यमाणत्वमपक्षीयमाणत्वं च तत्राऽऽह —

प्रतिपदाद्याभिरिति ।

वृद्धेर्मर्यादां दर्शयति —

यावदिति ।

अपक्षयस्य मर्यादामाह —

यावद्ध्रुवेति ।

अवशिष्टममावास्यायां निविष्टां कलां प्रपञ्चयन्द्वितीयकलोत्पत्तिं शुक्लप्रतिपदि दर्शयति —

स प्रजापतिरिति ।

प्राणिजातमेव विशिनष्टि —

यदप इति ।

स्थावरं जङ्गमं चेत्यर्थः । ओषध्यात्मनेत्युपलक्षणं जलात्मनेत्यपि द्रष्टव्यम् ।

फलभूते प्रजापतौ पाङ्क्तत्वं वक्तुमुपक्रान्तं तदद्यापि नोक्तमित्याशङ्क्याऽऽह —

एवमिति ।

तदेव पाङ्क्तत्वं व्यनक्ति —

दिवेति ।

कलानां वित्तवद्वित्तत्वे हेतुमाह —

उपचयेति ।

पाङ्क्तत्वनिर्देशेन लब्धमर्थमाह —

एवमेष इति ।

संप्रति कृत्स्नस्य प्रजापतेरुपक्रमानुसारित्वं दर्शयति —

जायेति ।

भवतु प्रजापतेरुक्तरीत्या पाङ्क्तत्वं तथाऽपि कथं पाङ्क्तकर्मफलत्वं तत्राऽऽह —

कारणेति ।

पाङ्क्तकर्मफलत्वं प्रजापतेरुक्त्वा प्रासंगिकमर्थमाह —

यस्मादिति ।

अपि कृकलासस्येति कुतो विशेषोक्तिरित्याशङ्क्याऽऽह —

कृकलासो हीति ।

कुतस्तस्य पापात्मत्वं तत्राऽऽह —

दृष्टोऽपीति ।

विशेषनिषेधस्य शेषानुज्ञापरत्वाद्विरोधः सामान्यशास्त्रेण स्यादिति शङ्कते —

नन्विति ।

तीर्थशब्दः शास्त्रविहितप्रदेशविषयः । साधारण्येन सर्वत्र निषिद्धाऽपि हिंसा विशेषतोऽमावास्यायां निषिध्यमाना सोमदेवतापूजार्था ।

ततः शेषानुज्ञाभावान्न सामान्योक्तिविरोधोऽस्तीति परिहरति —

बाढमिति ॥१४॥