बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षोडशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ १५ ॥
यो वै परोक्षाभिहितः संवत्सरः प्रजापतिः षोडशकलः, स नैव अत्यन्तं परोक्षो मन्तव्यः, यस्मादयमेव स प्रत्यक्ष उपलभ्यते ; कोऽसावयम् ? यो यथोक्तं त्र्यन्नात्मकं प्रजापतिमात्मभूतं वेत्ति स एवंवित्पुरुषः ; केन सामान्येन प्रजापतिरिति तदुच्यते — तस्य एवंविदः पुरुषस्य गवादिवित्तमेव पञ्चदश कलाः, उपचयापचयधर्मित्वात् — वित्तसाध्यं च कर्म ; तस्य कृत्स्नतायै — आत्मैव पिण्ड एव अस्य विदुषः षोडशी कला ध्रुवस्थानीया ; स चन्द्रवत् वित्तेनैव आपूर्यते च अपक्षीयते च ; तदेतत् लोके प्रसिद्धम् ; तदेतत् नभ्यम् नाभ्यै हितं नभ्यम् नाभिं वा अर्हतीति — किं तत् ? यदयं योऽयम् आत्मा पिण्डः ; प्रधिः वित्तं परिवारस्थानीयं बाह्यम् — चक्रस्येवारनेम्यादि । तस्मात् यद्यपि सर्वज्यानिं सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति, आत्मना चक्रनाभिस्थानीयेन चेत् यदि जीवति, प्रधिना बाह्येन परिवारेण अयम् अगात् क्षीणोऽयम् — यथा चक्रमरनेमिविमुक्तम् — एवमाहुः ; जीवंश्चेदरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इत्यभिप्रायः ॥

यत्पूर्वमाधिदैविकत्र्यन्नात्मकप्रजापत्युपासनमुक्तं तदहमस्मि प्रजापतिरित्यहङ्ग्रहेण कर्तव्यमित्याह —

यो वा इति ।

प्रत्यक्षमुपलभ्यमानं प्रजापतिं प्रश्नद्वारा प्रकटयति —

कोऽसाविति ।

तस्य प्रजापतित्वमप्रसिद्धमित्याशङ्क्य परिहरति —

केनेत्यादिना ।

कलानां जगद्विपरिणामहेतुत्वं कर्मेत्युक्तं वित्तेऽपि कर्महेतुत्वमस्ति तेन तत्र कलाशब्दप्रवृत्तिरुचितेत्याह —

वित्तेति ।

यथा चन्द्रमाः कलाभिः शुक्लकृष्णपक्षयोरापूर्यतेऽपक्षीयते च तथा स विद्वान्वित्तेनैवोपचीयमानेनाऽऽपूर्यतेऽपचीयमानेन चापक्षीयते । एतच्च लोकप्रसिद्धत्वान्न प्रतिपादनसापेक्षमित्याह —

स चन्द्रवदिति ।

आत्मैव ध्रुवा कलेत्युक्तं तदेव रथचक्रदृष्टान्तेन स्पष्टयति —

तदेतदिति ।

नाभिः चक्रपिण्डिका तत्स्थानीयं वा नभ्यं तदेव प्रश्नद्वारा स्फोरयति —

किं तदिति ।

शरीरस्य चक्रपिण्डिकास्थानीयत्वमयुक्तं परिवारादर्शनादित्याशङ्क्याऽऽह —

प्रधिरिति ।

शरीरस्य रथचक्रपिण्डिकास्थानीयत्वे फलितमाह —

तस्मादिति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

जीवंश्चेदिति ॥१५॥