अवतारितं ग्रन्थं व्याचष्टे —
योऽयमित्यादिना ।
कथं प्रजापतेस्तिथिभिरापूर्यमाणत्वमपक्षीयमाणत्वं च तत्राऽऽह —
प्रतिपदाद्याभिरिति ।
वृद्धेर्मर्यादां दर्शयति —
यावदिति ।
अपक्षयस्य मर्यादामाह —
यावद्ध्रुवेति ।
अवशिष्टममावास्यायां निविष्टां कलां प्रपञ्चयन्द्वितीयकलोत्पत्तिं शुक्लप्रतिपदि दर्शयति —
स प्रजापतिरिति ।
प्राणिजातमेव विशिनष्टि —
यदप इति ।
स्थावरं जङ्गमं चेत्यर्थः । ओषध्यात्मनेत्युपलक्षणं जलात्मनेत्यपि द्रष्टव्यम् ।
फलभूते प्रजापतौ पाङ्क्तत्वं वक्तुमुपक्रान्तं तदद्यापि नोक्तमित्याशङ्क्याऽऽह —
एवमिति ।
तदेव पाङ्क्तत्वं व्यनक्ति —
दिवेति ।
कलानां वित्तवद्वित्तत्वे हेतुमाह —
उपचयेति ।
पाङ्क्तत्वनिर्देशेन लब्धमर्थमाह —
एवमेष इति ।
संप्रति कृत्स्नस्य प्रजापतेरुपक्रमानुसारित्वं दर्शयति —
जायेति ।
भवतु प्रजापतेरुक्तरीत्या पाङ्क्तत्वं तथाऽपि कथं पाङ्क्तकर्मफलत्वं तत्राऽऽह —
कारणेति ।
पाङ्क्तकर्मफलत्वं प्रजापतेरुक्त्वा प्रासंगिकमर्थमाह —
यस्मादिति ।
अपि कृकलासस्येति कुतो विशेषोक्तिरित्याशङ्क्याऽऽह —
कृकलासो हीति ।
कुतस्तस्य पापात्मत्वं तत्राऽऽह —
दृष्टोऽपीति ।
विशेषनिषेधस्य शेषानुज्ञापरत्वाद्विरोधः सामान्यशास्त्रेण स्यादिति शङ्कते —
नन्विति ।
तीर्थशब्दः शास्त्रविहितप्रदेशविषयः । साधारण्येन सर्वत्र निषिद्धाऽपि हिंसा विशेषतोऽमावास्यायां निषिध्यमाना सोमदेवतापूजार्था ।
ततः शेषानुज्ञाभावान्न सामान्योक्तिविरोधोऽस्तीति परिहरति —
बाढमिति ॥१४॥