यत्पूर्वमाधिदैविकत्र्यन्नात्मकप्रजापत्युपासनमुक्तं तदहमस्मि प्रजापतिरित्यहङ्ग्रहेण कर्तव्यमित्याह —
यो वा इति ।
प्रत्यक्षमुपलभ्यमानं प्रजापतिं प्रश्नद्वारा प्रकटयति —
कोऽसाविति ।
तस्य प्रजापतित्वमप्रसिद्धमित्याशङ्क्य परिहरति —
केनेत्यादिना ।
कलानां जगद्विपरिणामहेतुत्वं कर्मेत्युक्तं वित्तेऽपि कर्महेतुत्वमस्ति तेन तत्र कलाशब्दप्रवृत्तिरुचितेत्याह —
वित्तेति ।
यथा चन्द्रमाः कलाभिः शुक्लकृष्णपक्षयोरापूर्यतेऽपक्षीयते च तथा स विद्वान्वित्तेनैवोपचीयमानेनाऽऽपूर्यतेऽपचीयमानेन चापक्षीयते । एतच्च लोकप्रसिद्धत्वान्न प्रतिपादनसापेक्षमित्याह —
स चन्द्रवदिति ।
आत्मैव ध्रुवा कलेत्युक्तं तदेव रथचक्रदृष्टान्तेन स्पष्टयति —
तदेतदिति ।
नाभिः चक्रपिण्डिका तत्स्थानीयं वा नभ्यं तदेव प्रश्नद्वारा स्फोरयति —
किं तदिति ।
शरीरस्य चक्रपिण्डिकास्थानीयत्वमयुक्तं परिवारादर्शनादित्याशङ्क्याऽऽह —
प्रधिरिति ।
शरीरस्य रथचक्रपिण्डिकास्थानीयत्वे फलितमाह —
तस्मादिति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
जीवंश्चेदिति ॥१५॥