वावशब्दस्यावधारणरूपमर्थं विवृणोति —
त्रय एवेति ।
तदेव लोकत्रयं प्रश्नद्वारा स्फोरयति —
के त इत्यादिना ।
जयो नाम पुत्रेण मनुष्यलोकस्यातिक्रम इति केचित्तान्प्रत्याह —
साध्य इति ।
पुत्रेणास्य साध्यत्वमसिद्धमित्याशङ्क्याऽऽह —
यथा चेति ।
द्विविधो हि मनुष्यलोकजयः कर्तव्यशेषानुष्ठानं भोगश्च । तत्राऽऽद्यमाश्रित्यान्ययोगव्यवच्छेदमेवकारार्थं दर्शयति —
नान्येनेति ।
द्वितीये त्वयोगव्यवच्छेदस्तदर्थो ज्योतिषेमं लोकं जयतीति साधनान्तरेणापि मनुष्यलोकजयश्रुतेरिति भावः ।
पूर्ववाक्यस्थमेवकारमुत्तरवाक्ययोरनुषक्तमुपेत्य वाक्यद्वयं व्याचष्टे —
कर्मणेत्यादिना ।
साधनद्वयापेक्षया फलद्वारकमुत्कर्षं विद्यायां दर्शयति —
देवलोक इति ॥१६॥