वृत्तमनुवदति —
एवमिति ।
पुत्रादिवज्जायावित्तयोरपि प्रकृतत्वात्फलविशेषे विनियोगो वक्तव्य इत्याशङ्क्याऽऽह —
जाया त्विति ।
न पृथक्पुत्रकर्मभ्यामिति शेषः । न पृथक्साधनं कर्मणः सकाशादिति द्रष्टव्यम् ।
भवत्वेवं साधनत्रयनियमस्तथाऽपि विद्याकर्मणी हित्वा समनन्तरग्रन्थे किमिति पुत्रनिरूपणमित्याशङ्क्याऽऽह —
विद्याकर्मणोरिति ।
यथोक्ते चोद्ये पुत्रस्य लोकहेतुत्वज्ञानार्थं संप्रत्तिवाक्यमित्याह —
अत इति ।
अथात इति पदद्वयं व्याख्याय संप्रत्तिपदं व्याचष्टे —
संप्रत्तिरिति ।
किमिदं संप्रदानं नाम तदाह —
संप्रत्तिरिति ।
तदेव कर्म विशदयति —
पुत्रे हीति ।
अनेन प्रकारेणेति वक्ष्यमाणप्रकारोक्तिः । अरिष्टादीत्यादिपदेन दुःस्वप्नादिसंग्रहः । प्रत्याह वाक्यत्रयमिति संबन्धः ।
पुत्रस्याहं ब्रह्मेत्यादिप्रतिवचने हेतुमाह —
स त्विति ।
मया कार्यं यदध्ययनादि तदेवावशिष्टं त्वया कार्यमिति पुत्रस्य प्रागनुशिष्टभावे प्रतिवचनानुपपत्तिरित्यर्थः ।
यद्वै किञ्चेत्यादिवाक्यानां पुत्रानुमन्त्रणवाक्यैरर्थभेदाभावात्पुनरुक्तिरित्याशङ्क्याऽऽह —
एतस्येति ।
यद्वै किञ्चेत्यादिवाक्ये वाक्यार्थमाह —
योऽध्ययनेति ।
त्वं ब्रह्मेतिवाक्यवत्त्वं यज्ञ इति वाक्यमपि शक्यं व्याख्यातुमित्याह —
तथेति ।
ब्राह्मणार्थं संगृह्णाति —
मत्कर्तृका इति ।
त्वं लोक इत्यस्य व्याख्यानं ये वै के चेत्यादि ।
तत्र पदार्थानुक्त्वा वाक्यार्थमाह —
इत इति ।
किमिति त्वत्कर्तृकमध्ययनादि मयि समर्प्यते त्वयैव किं नानुष्ठीयते तत्राऽऽह —
इत ऊर्ध्वमिति ।
कर्तव्यतैव बन्धनं तद्विषयः क्रतुः संकल्पस्तस्मादिति यावत् ।
स पुत्र इत्यादेस्तात्पर्यमाह —
स चेति ।
तत्रेति यथोक्तानुशासनोक्तिः ।
एतन्मा सर्वमित्यादि प्रतीकमादाय व्याचष्टे —
सर्वं हीति ।
अनद्यतने भूतेऽर्थे विहितस्य लङो भविष्यदर्थं कथमित्याशङ्क्याऽऽह —
छन्दसीति ।
पुत्रानुशासनस्य फलवत्त्वमाह —
यस्मादित्यादिना ।
कृतसंप्रत्तिकः सन्पिता किं करोतीत्यपेक्षायामाह —
स पितेति ।
कोऽयं प्रवेशो न हि विशिष्टस्य केवलस्य वा बिले सर्पवत्प्रवेशः संभवत्यत आह —
अध्यात्मेति ।
हेतुर्मिथ्याज्ञानादिः ।
वागादिष्वाविष्टेष्वपि कुतोऽर्थान्तरस्य पितुरावेशधीरित्याशङ्क्याऽऽह —
वागिति ।
तद्भावित्वमेव स्फोरयति —
अहमिति ।
भावनाफलमाह —
तस्मादिति ।
पुत्रविशेषणात्परिच्छिन्नत्वं पितुस्तदवस्थमित्याशङ्क्याऽऽह —
सर्वेषां हीति ।
मृतस्य पितुरितो लोकाद्व्यावृत्तस्य कथं यथोक्तरूपत्वमित्याशङ्क्याऽऽह —
एतदुक्तमिति ।
पुत्ररूपेणात्र स्थितमेव विभजते —
नैवेति ।
मृतोऽपि पिताऽनुशिष्टपुत्रात्मनाऽत्र वर्तते नास्मादत्यन्तं व्यावृत्तः फलरूपेण च परत्रेति भावः ।
उक्तेऽर्थ ऐतरेयश्रुतिं संवादयति —
तथा चेति ।
षष्ठीप्रथमाभ्यां पितापुत्रावुच्येते ।
स यदीत्यादिवाक्यमवतार्य व्याकरोति —
अथेत्यादिना ।
अकृतमकृतादिति च च्छेदः ।
तस्मादिति प्रतीकमादाय व्याकरोति —
पूरणेनेति ।
तदेव प्रपञ्चयति —
इदं तदिति ।
पुत्रवैशिष्ट्यं निगमयति —
स पितेति ।
पुत्रेणैतल्लोकजयमुपसंहरति —
एवमिति ।
यथोक्तात्पुत्राद्विद्याकर्मणोर्विशेषमाह —
न तथेति ।
कथं तर्हि ताभ्यां पिता तौ जयति तत्राऽऽह —
स्वरूपेति ।
तदेव स्फुटयति —
न हीति ।
अनुशिष्टपुत्रेणैतल्लोकजयिनं पितरमधिकृत्याथैनमित्यादि वाक्यं तद्व्याकरोति —
अथेति ।
पुत्रप्रकरणविच्छेदार्थोऽथशब्दः ॥१७॥