बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठस्तस्माद्विद्यां प्रशंसन्ति ॥ १६ ॥
अथेति वाक्योपन्यासार्थः । त्रयः — वावेत्यवधारणार्थः — त्रय एव शास्त्रोक्तसाधनार्हा लोकाः, न न्यूना नाधिका वा ; के त इत्युच्यते — मनुष्यलोकः पितृलोको देवलोक इति । तेषां सोऽयं मनुष्यलोकः पुत्रेणैव साधनेन जय्यः जेतव्यः साध्यः — यथा च पुत्रेण जेतव्यस्तथोत्तरत्र वक्ष्यामः — नान्येन कर्मणा, विद्यया वेति वाक्यशेषः । कर्मणा अग्निहोत्रादिलक्षणेन केवलेन पितृलोको जेतव्यः, न पुत्रेण नापि विद्यया । विद्यया देवलोकः, न पुत्रेण नापि कर्मणा । देवलोको वै लोकानां त्रयाणां श्रेष्ठः प्रशस्यतमः ; तस्मात् तत्साधनत्वात् विद्यां प्रशंसन्ति ॥

वावशब्दस्यावधारणरूपमर्थं विवृणोति —

त्रय एवेति ।

तदेव लोकत्रयं प्रश्नद्वारा स्फोरयति —

के त इत्यादिना ।

जयो नाम पुत्रेण मनुष्यलोकस्यातिक्रम इति केचित्तान्प्रत्याह —

साध्य इति ।

पुत्रेणास्य साध्यत्वमसिद्धमित्याशङ्क्याऽऽह —

यथा चेति ।

द्विविधो हि मनुष्यलोकजयः कर्तव्यशेषानुष्ठानं भोगश्च । तत्राऽऽद्यमाश्रित्यान्ययोगव्यवच्छेदमेवकारार्थं दर्शयति —

नान्येनेति ।

द्वितीये त्वयोगव्यवच्छेदस्तदर्थो ज्योतिषेमं लोकं जयतीति साधनान्तरेणापि मनुष्यलोकजयश्रुतेरिति भावः ।

पूर्ववाक्यस्थमेवकारमुत्तरवाक्ययोरनुषक्तमुपेत्य वाक्यद्वयं व्याचष्टे —

कर्मणेत्यादिना ।

साधनद्वयापेक्षया फलद्वारकमुत्कर्षं विद्यायां दर्शयति —

देवलोक इति ॥१६॥