अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकतैतावद्वा इदं सर्वमेतन्मा सर्वं सन्नयमितोऽभुनजदिति तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किञ्चिदक्ष्णयाकृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम स पुत्रेणैवास्मिंल्लोके प्रतितिष्ठत्यथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७ ॥
एवं साध्यलोकत्रयफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधनानि ; जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथक् नाभिहिता ; वित्तं च कर्मसाधनत्वान्न पृथक्साधनम् ; विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम् ; पुत्रस्य तु अक्रियात्मकत्वात् केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायते ; अतस्तद्वक्तव्यमिति अथ अनन्तरमारभ्यते — सम्प्रत्तिः सम्प्रदानम् ; सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम् ; पुत्रे हि स्वात्मव्यापारसम्प्रदानं करोति अनेन प्रकारेण पिता, तेन सम्प्रत्तिसंज्ञकमिदं कर्म । तत् कस्मिन्काले कर्तव्यमित्याह — स पिता यदा यस्मिन्काले प्रैष्यन् मरिष्यन् मरिष्यामीत्यरिष्टादिदर्शनेन मन्यते, अथ तदा पुत्रमाहूयाह — त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । स एवमुक्तः पुत्रः प्रत्याह ; स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति ; तेनाह — अहं ब्रह्म अहं यज्ञः अहं लोक इति एतद्वाक्यत्रयम् । एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते — यद्वै किञ्च यत्किञ्च अवशिष्टम् अनूक्तम् अधीतमनधीतं च, तस्य सर्वस्यैव ब्रह्मेत्येतस्मिन्पदे एकता एकत्वम् ; योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषयः, सः इत ऊर्ध्वं त्वं ब्रह्म त्वत्कर्तृकोऽस्त्वित्यर्थः । तथा ये वै के च यज्ञा अनुष्ठेयाः सन्तो मया अनुष्ठिताश्चाननुष्ठिताश्च, तेषां सर्वेषां यज्ञ इत्येतस्मिन्पद एकता एकत्वम् ; मत्कर्तृका यज्ञा य आसन् ; ते इत ऊर्ध्वं त्वं यज्ञः त्वत्कर्तृका भवन्त्वित्यर्थः । ये वै के च लोका मया जेतव्याः सन्तो जिता अजिताश्च, तेषां सर्वेषां लोक इत्येतस्मिन्पद एकता ; इत ऊर्ध्वं त्वं लोकः त्वया जेतव्यास्ते । इत ऊर्ध्वं मया अध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितः, अहं तु मुक्तोऽस्मि कर्तव्यताबन्धनविषयात्क्रतोः । स च सर्वं तथैव प्रतिपन्नवान्पुत्रः अनुशिष्टत्वात् । तत्र इमं पितुरभिप्रायं मन्वाना आचष्टे श्रुतिः — एतावत् एतत्परिमाणं वै इदं सर्वम् — यद्गृहिणा कर्तव्यम् , यदुत वेदा अध्येतव्याः, यज्ञा यष्टव्याः, लोकाश्च जेतव्याः ; एतन्मा सर्वं सन्नयम् — सर्वं हि इमं भारं मदधीनं मत्तोऽपच्छिद्य आत्मनि निधाय इतः अस्माल्लोकात् मा माम् अभुनजत् पालयिष्यतीति — लृडर्थे लङ् , छन्दसि कालनियमाभावात् । यस्मादेवं सम्पन्नः पुत्रः पितरम् अस्माल्लोकात्कर्तव्यताबन्धनतो मोचयिष्यति, तस्मात्पुत्रमनुशिष्टं लोक्यं लोकहितं पितुः आहुर्ब्राह्मणाः । अत एव ह्येनं पुत्रमनुशासतिलोक्योऽयं नः स्यादिति — पितरः । स पिता यदा यस्मिन्काले एवंवित् पुत्रसमर्पितकर्तव्यताक्रतुः अस्माल्लोकात् प्रैति म्रियते, अथ तदा एभिरेव प्रकृतैर्वाङ्मनःप्राणैः पुत्रमाविशति पुत्रं व्याप्नोति । अध्यात्मपरिच्छेदहेत्वपगमात् पितुर्वाङ्मनःप्राणाः स्वेन आधिदैविकेन रूपेण पृथिव्यग्न्याद्यात्मना भिन्नघटप्रदीपप्रकाशवत् सर्वम् आविशन्ति ; तैः प्राणैः सह पितापि आविशति वाङ्मनःप्राणात्मभावित्वात्पितुः ; अहमस्म्यनन्ता वाङ्मनःप्राणा अध्यात्मादिभेदविस्ताराः — इत्येवंभावितो हि पिता ; तस्मात् प्राणानुवृत्तित्वं पितुर्भवतीति युक्तमुक्तम् — एभिरेव प्राणैः सह पुत्रमाविशतीति ; सर्वेषां ह्यसावात्मा भवति पुत्रस्य च । एतदुक्तं भवति — यस्य पितुरेवमनुशिष्टः पुत्रो भवति सोऽस्मिन्नेव लोके वर्तते पुत्ररूपेण नैव मृतो मन्तव्य इत्यर्थः ; तथा च श्रुत्यन्तरे — ‘सोऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते’ (ऐ. उ. २ । १ । ४) इति । अथेदानीं पुत्रनिर्वचनमाह — स पुत्रः यदि कदाचित् अनेन पित्रा अक्ष्णया कोणच्छिद्रतोऽन्तरा अकृतं भवति कर्तव्यम् , तस्मात् कर्तव्यतारूपात्पित्रा अकृतात् सर्वस्माल्लोकप्राप्तिप्रतिबन्धरूपात् पुत्रो मुञ्चति मोचयति तत्सर्वं स्वयमनुतिष्ठन्पूरयित्वा ; तस्मात् पूरणेन त्रायते स पितरं यस्मात् , तस्मात् , पुत्रो नाम ; इदं तत्पुत्रस्य पुत्रत्वम् — यत्पितुश्छिद्रं पूरयित्वा त्रायते । स पिता एवंविधेन पुत्रेण मृतोऽपि सन् अमृतः अस्मिन्नेव लोके प्रतितिष्ठति एवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति ; न तथा विद्याकर्मभ्यां देवलोकपितृलोकौ, स्वरूपलाभसत्तामात्रेण ; न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्रवत् व्यापारान्तरापेक्षया लोकजयहेतुत्वं प्रतिपद्येते । अथ कृतसम्प्रत्तिकं पितरम् एनम् एते वागादयः प्राणाः दैवाः हैरण्यगर्भाः अमृताः अमरणधर्माण आविशन्ति ॥