बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥
कथमिति वक्ष्यति — पृथिव्यै चैनमित्यादि । एवं पुत्रकर्मापरविद्यानां मनुष्यलोकपितृलोकदेवलोकसाध्यार्थता प्रदर्शिता श्रुत्या स्वयमेव ; अत्र केचिद्वावदूकाः श्रुत्युक्तविशेषार्थानभिज्ञाः सन्तः पुत्रादिसाधनानां मोक्षार्थतां वदन्ति ; तेषां मुखापिधानं श्रुत्येदं कृतम् — जाया मे स्यादित्यादि पाङ्क्तं काम्यं कर्मेत्युपक्रमेण, पुत्रादीनां च साध्यविशेषविनियोगोपसंहारेण च ; तस्मात् ऋणश्रुतिरविद्वद्विषया न परमात्मविद्विषयेति सिद्धम् ; वक्ष्यति च — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति -

आवेशप्रकारबुभुत्सायामुत्तरवाक्यप्रवृत्तिं प्रतिजानीते —

कथमित्यदिना ।

पृथिव्यै चेत्यादिवाक्यस्य व्यावर्त्यं पक्षं वृत्तानुवादपूर्वकमुत्थापयति —

एवमिति ।

अत्रेति वैदिकं पक्षं निर्धारयितुं सप्तमी ।

बहुवदनशीलत्वे हेतुः —

श्रुत्युक्तेति ।

मोक्षार्थतामृणापाकरणश्रुतिस्मृतिभ्यां वदन्तीति शेषः ।

मीमांसकपक्षं प्रकृतश्रुतिविरोधेन दूषयति —

तेषामिति ।

कथमित्याशङ्क्य श्रुतेरादिमध्यावसानालोचनया पुत्रादेः संसारफलत्वावगमान्न मुक्तिफलतेत्याह —

जायेत्यादिना ।

पुत्रादीनाञ्चेति चकारादेतावान्वै काम इति मध्यसंग्रहः ।

यदुक्तमृणापाकरणश्रुतिस्मृतिभ्यां पुत्रादेर्मुक्तिफलतेति तत्राऽऽह —

तस्मादिति ।

पुत्रादेः श्रुतं संसारफलत्वं पराम्रष्टुं तच्छब्दः । श्रुतिशब्दः स्मृतेरुपलक्षणार्थः ।

श्रुतिस्मृत्योरविरक्तविषयत्वे वाक्यशेषमनुकूलयति —

वक्ष्यति चेति ।