बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥
केचित्तु पितृलोकदेवलोकजयोऽपि पितृलोकदेवलोकाभ्यां व्यावृत्तिरेव ; तस्मात् पुत्रकर्मापरविद्याभिः समुच्चित्यानुष्ठिताभिः त्रिभ्य एतेभ्यो लोकेभ्यो व्यावृत्तः परमात्मविज्ञानेन मोक्षमधिगच्छतीति परम्परया मोक्षार्थान्येव पुत्रादिसाधनानि इच्छन्ति ; तेषामपि मुखापिधानाय इयमेव श्रुतिरुत्तरा कृतसम्प्रत्तिकस्य पुत्रिणः कर्मिणः त्र्यन्नात्मविद्याविदः फलप्रदर्शनाय प्रवृत्ता । न च इदमेव फलं मोक्षफलमिति शक्यं वक्तुम् , त्र्यन्नसम्बन्धात् मेधातपःकार्यत्वाच्चान्नानाम् पुनः पुनर्जनयत इति दर्शनात् , ‘यद्धैतन्न कुर्यात्क्षीयेत ह’ (बृ. उ. १ । ५ । २) इति च क्षयश्रवणात् , शरीरम् ज्योतीरूपमिति च कार्यकरणत्वोपपत्तेः, ‘त्रयं वा इदम्’ (बृ. उ. १ । ६ । १) इति च नामरूपकर्मात्मकत्वेनोपसंहारात् । न च इदमेव साधनत्रयं संहतं सत् कस्यचिन्मोक्षार्थं कस्यचित् त्र्यन्नात्मफलमित्यस्मादेव वाक्यादवगन्तुं शक्यम् , पुत्रादिसाधनानां त्र्यन्नात्मफलदर्शनेनैव उपक्षीणत्वाद्वाक्यस्य ॥

मीमांसकपक्षं निराकृत्य भर्तृप्रपञ्चपक्षमुत्थापयति —

केचित्त्विति ।

मनुष्यलोकजयस्ततो व्यावृत्तिर्यथेत्यपेरर्थः ।

पुत्रादिसाधनाधीनतया लोकत्रयव्यावृत्तावपि कथं मोक्षः संपद्यते न हि पुत्रादीन्येव मुक्तिसाधनानि विरक्तत्वविरोधादित्याशङ्क्याऽऽह —

तस्मादिति ।

पृथिव्यै चेत्याद्योत्तरा श्रुतिरेव मीमांसकमतवद्भर्तृप्रपञ्चमतमपि निराकरोतीति दूषयति —

तेषामिति ।

कथं सा तन्मतं निराकरोतीत्याशङ्क्य श्रुतिं विशिनष्टि —

कृतेति ।

त्र्यन्नात्मोपासितुस्तदाप्तिवचनविरुद्धं परमतमित्युक्तं तदाप्तेरेव मुक्तित्वादित्याशङ्क्याऽऽह —

न चेति ।

तथाऽपि कथं यथोक्तं फलं मोक्षो न भवति तत्राऽऽह —

मेधेति ।

त्र्यन्नात्मनो ज्ञानकर्मजन्यत्वे हेतुमाह —

पुनः पुनरिति ।

सूत्राप्तेरमुक्तित्वे हेत्वन्तरमाह —

यद्धेति ।

कार्यकरणवत्त्वश्रुतेरपि सूत्रभावो न मुक्तिरित्याह —

शरीरमिति ।

अविद्यातदुत्थद्वैतस्य त्र्यात्मकत्वेनोपसंहारात्तदात्मसूत्रभावो बन्धान्तर्भूतो न मुक्तिरिति युक्त्यन्तरमाह —

त्रयमिति ।

नन्वविरक्तस्याज्ञस्य सूत्राप्तिफलमपि कर्मादिविरक्तस्य विदुषो मुक्तिफलमिति व्यवस्थितिर्नेत्याह —

न चेदमिति ।

न हि पृथिव्यै चेत्यादिवाक्यस्यैकस्य सकृच्छ्रुतस्यानेकार्थत्वम् । भिद्यते हि तथा वाक्यमिति न्यायादित्यर्थः ।