बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥
पृथिव्यै पृथिव्याः च एनम् अग्नेश्च दैवी अधिदैवात्मिका वाक् एनं कृतसम्प्रत्तिकम् आविशति ; सर्वेषां हि वाच उपादानभूता दैवी वाक् पृथिव्यग्निलक्षणा ; सा ह्याध्यात्मिकासङ्गादिदोषैर्निरुद्धा । विदुषस्तद्दोषापगमे आवरणभङ्ग इवोदकं प्रदीपप्रकाशवच्च व्याप्नोति ; तदेतदुच्यते — पृथिव्या अग्नेश्चैनं दैवी वागाविशतीति । सा च दैवी वाक् अनृतादिदोषरहिता शुद्धा, यया वाचा दैव्या यद्यदेव आत्मने परस्मै वा वदति तत्तत् भवति — अमोघा अप्रतिबद्धा अस्य वाग्भवतीत्यर्थः ॥

पृथिव्यै चेत्यादिवाक्यावष्टम्भेन पक्षद्वयं प्रतिक्षिप्य तदक्षराणि व्यचष्टे —

पृथिव्या इति ।

एनमित्युक्तमनूद्य व्याकरोति —

एनमिति ।

कथं पुनः सूत्रात्मभूता वागुपासकमाविशति तत्राह —

सर्वेषां हीति ।

तर्हि तयोरभेदादविदुषोऽपि व्याप्तैव वागिति विदुषि विशेषो नास्तीत्याशङ्क्याऽऽह —

सा हीति ।

दैव्यां वाचि दोषविगममुत्तरवाक्येन साधयति —

सा चेति ।

विद्वद्वाचः स्वरूपं संक्षिपति —

अमोघेति ॥१८॥