बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
दिवश्चैनमादित्याच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १९ ॥
तथा दिवश्चैनमादित्याच्च दैवं मन आविशति — तच्च दैवं मनः, स्वभावनिर्मलत्वात् ; येन मनसा असौ आनन्द्येव भवति सुख्येव भवति ; अथो अपि न शोचति, शोकादिनिमित्तासंयोगात् ॥

वाचि दर्शितन्यायं मनस्यतिदिशति —

तथेति ।

यन्मनः स्वभावनिर्मलत्वेन दैवमित्युक्तं तदेव विशिनष्टि —

येनेति ।

असाविति विद्वदुक्तिः । येन मनसा विद्वान्न शोचत्यपि तद्धेत्वभावात्तद्दैवमिति पूर्वेण संबन्धः ॥१९॥