अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतान्यवन्त्यैवं हैवंविदं सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति ॥ २० ॥
तथा अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः प्राणः किंलक्षण इत्युच्यते — यः सञ्चरन् प्राणिभेदेषु असञ्चरन् समष्टिव्यष्टिरूपेण — अथवा सञ्चरन् जङ्गमेषु असञ्चरन्स्थावरेषु — न व्यथते न दुःखनिमित्तेन भयेन युज्यते ; अथो अपि न रिष्यति न विनश्यति न हिंसामापद्यते । सः — यो यथोक्तमेवं वेत्ति त्र्यन्नात्मदर्शनं सः — सर्वेषां भूतानामात्मा भवति, सर्वेषां भूतानां प्राणो भवति, सर्वेषां भूतानां मनो भवति, सर्वेषां भूतानां वाग्भवति — इत्येवं सर्वभूतात्मतया सर्वज्ञो भवतीत्यर्थः — सर्वकृच्च । यथैषा पूर्वसिद्धा हिरण्यगर्भदेवता एवमेव नास्य सर्वज्ञत्वे सर्वकृत्त्वे वा क्वचित्प्रतिघातः ; स इति दार्ष्टान्तिकनिर्देशः । किञ्च यथैतां हिरण्यगर्भदेवताम् इज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूजयन्ति, एवं ह एवंविदं सर्वाणि भूतान्यवन्ति — इज्यादिलक्षणां पूजां सततं प्रयुञ्जत इत्यर्थः ॥