अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतान्यवन्त्यैवं हैवंविदं सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति ॥ २० ॥
अथेदमाशङ्क्यते — सर्वप्राणिनामात्मा भवतीत्युक्तम् ; तस्य च सर्वप्राणिकार्यकरणात्मत्वे सर्वप्राणिसुखदुःखैः सम्बध्येतेति — तन्न । अपरिच्छिन्नबुद्धित्वात् — परिच्छिन्नात्मबुद्धीनां ह्याक्रोशादौ दुःखसम्बन्धो दृष्टः -, अनेनाहमाक्रुष्ट इति ; अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाक्रोशति तयोरात्मत्वबुद्धिविशेषाभावात् न तन्निमित्तं दुःखमुपपद्यते । मरणदुःखवच्च निमित्ताभावात् — यथा हि कस्मिंश्चिन्मृते कस्यचिद्दुःखमुत्पद्यते — ममासौ पुत्रो भ्राता चेति — पुत्रादिनिमित्तम् , तन्निमित्ताभावे तन्मरणदर्शिनोऽपि नैव दुःखमुपजायते, तथा ईश्वरस्यापि अपरिच्छिन्नात्मनो ममतवतादिदुःखनिमित्तमिथ्याज्ञानादिदोषाभावात् नैव दुःखमुपजायते । तदेतदुच्यते — यदु किञ्च यत्किञ्च इमाः प्रजाः शोचन्ति अमैव सहैव प्रजाभिः तच्छोकादिनिमित्तं दुःखं संयुक्तं भवति आसां प्रजानाम् परिच्छिन्नबुद्धिजनितत्वात् ; सर्वात्मनस्तु केन सह किं संयुक्तं भवेत् वियुक्तं वा । अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शुभमेव — फलमभिप्रेतं पुण्यमिति — निरतिशयं हि तेन पुण्यं कृतम् , तेन तत्फलमेव गच्छति ; न ह वै देवान्पापं गच्छति, पापफलस्यावसराभावात् — पापफलं दुःखं न गच्छतीत्यर्थः ॥