वाचि दर्शितन्यायं मनस्यतिदिशति —
तथेति ।
यन्मनः स्वभावनिर्मलत्वेन दैवमित्युक्तं तदेव विशिनष्टि —
येनेति ।
असाविति विद्वदुक्तिः । येन मनसा विद्वान्न शोचत्यपि तद्धेत्वभावात्तद्दैवमिति पूर्वेण संबन्धः ॥१९॥