मनस्युक्तं न्यायं प्राणेऽतिदिशति —
तथेति ।
तमेव दैवं प्राणं प्रश्नपूर्वकं प्रकटयति —
स वा इति ।
स एवंविदित्यादि व्याचष्टे —
स य इति ।
विदिरत्र लाभार्थः ।
न केवलं यथोक्तमेव विद्याफलं किन्तु फलान्तरमप्यस्तीत्याह —
किञ्चेति ।