सर्वभूतात्मत्वे तद्दोषयोगात्प्राजापत्यं पदमनादेयमित्युत्तरवाक्यव्यावर्त्यामाशङ्कामाह —
अथेति ।
सर्वप्राणिसुखदुःखैरित्यस्मादूर्ध्वं सशब्दोऽध्याहर्तव्यः ।
सर्वात्मके विदुष्येकैकभूतनिष्ठदुःखयोगो नास्तीत्युत्तरमाह —
तन्नेति ।
तदेव प्रपञ्चयति —
परिच्छिन्नेति ।
परिच्छिन्नधीत्वेऽपि सूत्रात्मके विदुषि सर्वभूतान्तर्भावात्तद्दुःखादियोगः स्यादेवेत्याशङ्क्य जठरकुहरविपरिवर्तिक्रिमिदोषैरस्माकमसंसर्गवत्प्रकृतेऽपि संभवान्मैवमित्यभिप्रेत्याऽऽह —
मरणेति ।
नोपपद्यते विदुषो दुःखमिति पूर्वेण संबन्धः ।
दृष्टान्तं विवृणोति —
यथेति ।
मैत्रस्य स्वहस्ताद्यभिमानवतस्तद्दुःखादियोगवद्विदुषः सूत्रात्मनः स्वांशभूतसर्वभूताभिमानिनस्तद्दुःखादिसंसर्गः स्यादित्याशङ्क्य दार्ष्टान्तिकमाह —
तथेति ।
ममतवतादीत्यादिपदेनाहन्ताग्रहणं तदेव दुःखनिमित्तं मिथ्याज्ञानम् । आदिशब्देन रागादिरुक्तः ।
उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —
तदेतदिति ।
शुभमेव गच्छतीति संबन्धः ।
फलरूपेण वर्तमानस्य कथं कर्मसंबन्धः स्यादित्याशङ्क्याऽऽह —
फलमिति ।
उक्तमेव व्यनक्ति —
निरतिशयं हीति ॥२०॥