उपासनोक्त्यानन्तर्यमथशब्दार्थं कथयति —
अनन्तरमिति ।
विचारणामेव स्फोरयति —
एषामिति ।
प्रवृत्तायां मीमांसायां प्राणव्रतमभग्नत्वेन धारणीयमिति निर्धारणार्थमाख्यायिकां प्रणयति —
तत्रेत्यादिना ।
कथं वागादिषु करणेषु कर्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —
कर्मार्थानीति ।
तदीयसृष्टेरुपयोगमुपदर्शयितुं भूमिकाङ्करोति —
तानीति ।
स्पर्धाप्रकारं प्रश्नपूर्वकं प्रकटयति —
कथमित्यादिना ।
यथाकर्म स्वीयं स्वीयं व्यापारमनुसृत्य व्रतं दध्रिरे वागादीनि करणानीत्यर्थः ।
प्रजापतेर्वागादिषु श्रमद्वारा स्वकर्मप्रच्युतिरासीदित्यत्र कार्यलिङ्गकमनुमानं प्रमाणयति —
तस्मादिति ।
वागादीनां भग्नव्रतत्वनिर्धारणानन्तर्यमथशब्दार्थः ।
प्राजापत्ये प्राणे मृत्युग्रस्तस्वाभावे कार्यलिङ्गकमनुमानं सूचयति —
तेनेति ।
प्रवर्तते प्राण इति संबन्धः ।
तथाऽपि कथं प्राणस्य व्रतं धार्यमित्यपेक्षायामाह —
तानीति ।
ज्ञानार्थमनुसन्धानप्रकारमेव दर्शयति —
अयमिति ।
तस्य श्रेष्ठत्वे फलितमाह —
हन्तेति ।
इतिशब्दं व्याकरोति —
एवं विनिश्चित्येति ।
अस्माकं वागादीनां व्रतानि मृत्योर्वारणाय न पर्याप्तानीति विनिश्चित्य दध्रिरे प्राणव्रतमेवेति संबन्धः ।
प्राणरूपत्वमुक्त्वा करणानां तन्नामत्वमाह —
यस्मादिति ।
यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः ।
प्राणरूपं चलनात्मत्वमिति कुतो निश्चीयते तत्राऽऽह —
न हीति ।
तर्हि करणेषु प्रकाशात्मकत्वमेव न चलनात्मत्वमित्याशङ्क्याऽऽह —
चलनेति ।
संप्रति विद्याफलमाह —
य एवमिति ।
तदेव स्पष्टयति —
यस्मिन्निति ।
तपती सूर्यसुता तस्या वंशस्तापत्यः ।
कस्येदं फलमित्युक्ते पूर्वोक्तमेव स्फुटयति —
य एवमित्यादिना ।
न केवलं विद्याया यथोक्तमेव फलं किन्तु फलान्तरमप्यस्तीत्याह —
किञ्चेति ।
प्राणविदा सह स्पर्धा न कर्तव्येति भावः ।
इत्यध्यात्ममित्यस्याऽऽनर्थक्यमाशङ्क्याऽऽह —
इत्येवमिति ॥२१॥