अथातो व्रतमीमांसा प्रजापतिर्ह कर्माणि ससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि यथाकर्म तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत्तान्याप्त्वा मृत्युरवारुन्ध तस्माच्छ्राम्यत्येव वाक्श्राम्यति चक्षुः श्राम्यति श्रोत्रमथेममेव नाप्नोद्योऽयं मध्यमः प्राणस्तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद य उ हैवंविदा स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१ ॥
अथातः अनन्तरं व्रतमीमांसा उपासनकर्मविचारणेत्यर्थः ; एषां प्राणानां कस्य कर्म व्रतत्वेन धारयितव्यमिति मीमांसा प्रवर्तते । तत्र प्रजापतिः ह — ह - शब्दः किलार्थे — प्रजापतिः किल प्रजाः सृष्ट्वा कर्माणि करणानि वागादीनि — कर्मार्थानि हि तानीति कर्माणीत्युच्यन्ते — ससृजे सृष्टवान् वागादीनि करणानीत्यर्थः । तानि पुनः सृष्टानि अन्योन्येन इतरेतरम् अस्पर्धन्त स्पर्धां सङ्घर्षं चक्रुः ; कथम् ? वदिष्याम्येव स्वव्यापाराद्वदनादनुपरतैव अहं स्यामिति वाग्व्रतं दध्रे धृतवती — यद्यन्योऽपि मत्समोऽस्ति स्वव्यापारादनुपरन्तुं शक्तः, सोऽपि दर्शयत्वात्मनो वीर्यमिति ; तथा द्रक्ष्याम्यहमिति चक्षुः ; श्रोष्याम्यहमिति श्रोत्रम् ; एवमन्यानि कर्माणि करणानि यथाकर्म — यत् यत् यस्य कर्म यथाकर्म — तानि करणानि मृत्युर्मारकः श्रमः श्रमरूपी भूत्वा उपयेमे सञ्जग्राह । कथम् ? तानि करणानि स्वव्यापारे प्रवृत्तानि आप्नोत् श्रमरूपेण आत्मानं दर्शितवान् ; आप्त्वा च तानि अवारुन्ध अवरोधं कृतवान्मृत्युः — स्वकर्मभ्यः प्रच्यावितवानित्यर्थः । तस्मादद्यत्वेऽपि वदने स्वकर्मणि प्रवृत्ता वाक् श्राम्यत्येव श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मतः प्रच्यवते ; तथा श्राम्यति चक्षुः ; श्राम्यति श्रोत्रम् । अथेममेव मुख्यं प्राणं न आप्नोत् न प्राप्तवान्मृत्युः श्रमरूपी — योऽयं मध्यमः प्राणः तम् । तेनाद्यत्वेऽप्यश्रान्त एव स्वकर्मणि प्रवर्तते । तानीतराणि करणानि तं ज्ञातुं दध्रिरे धृतवन्ति मनः ; अयं वै नः अस्माकं मध्ये श्रेष्ठः प्रशस्यतमः अभ्यधिकः, यस्मात् यः सञ्चरंश्चासञ्चरंश्च न व्यथते, अथो न रिष्यति — हन्त इदानीमस्यैव प्राणस्य सर्वे वयं रूपमसाम प्राणमात्मत्वेन प्रतिपद्येमहि — एवं विनिश्चित्य ते एतस्यैव सर्वे रूपमभवन् प्राणरूपमेव आत्मत्वेन प्रतिपन्नाः प्राणव्रतमेव दध्रिरे — अस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानीति । यस्मात्प्राणेन रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मना ; न हि प्राणादन्यत्र चलनात्मकत्वोपपत्तिः ; चलनव्यापारपूर्वकाण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते — तस्मात् एते वागादयः एतेन प्राणाभिधानेन आख्यायन्ते अभिधीयन्ते — प्राणा इत्येवम् । य एवं प्राणात्मतां सर्वकरणानां वेत्ति प्राणशब्दाभिधेयत्वं च, तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते लौकिकाः, यस्मिन्कुले स विद्वान् जातो भवति — तत्कुलं विद्वन्नाम्नैव प्रथितं भवति — अमुष्येदं कुलमिति — यथा तापत्य इति । य एवं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च, तस्यैतत्फलम् । किञ्च यः कश्चित् उ ह एवंविदा प्राणात्मदर्शिना स्पर्धते तत्प्रतिपक्षी सन् सः अस्मिन्नेव शरीरे अनुशुष्यति शोषमुपगच्छति ; अनुशुष्य हैव शोषं गत्वैव अन्ततः अन्ते म्रियते, न सहसा अनुपद्रुतो म्रियते । इत्येवमुक्तमध्यात्मं प्राणात्मदर्शनमिति उक्तोपसंहारः अधिदैवतप्रदर्शनार्थः ॥