बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवतं स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवता न वायुः सैषानस्तमिता देवता यद्वायुः ॥ २२ ॥
अथ अनन्तरम् अधिदैवतं देवताविषयं दर्शनमुच्यते । कस्य देवताविशेषस्य व्रतधारणं श्रेय इति मीमांस्यते । अध्यात्मवत्सर्वम् । ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ; तप्स्याम्यहमित्यादित्यः ; भास्याम्यहमिति चन्द्रमाः ; एवमन्या देवता यथादैवतम् । सः अध्यात्मं वागादीनामेषां प्राणानां मध्ये मध्यमः प्राणो मृत्युना अनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन प्राणव्रतेनाभग्नव्रतो यथा, एवम् एतासामग्न्यादीनां देवतानां वायुरपि । म्लोचन्ति अस्तं यन्ति स्वकर्मभ्य उपरमन्ते — यथा अध्यात्मं वागादयोऽन्या देवता अग्न्याद्याः ; न वायुरस्तं याति — यथा मध्यमः प्राणः ; अतः सैषा अनस्तमिता देवता यद्वायुः योऽयं वायुः । एवमध्यात्ममधिदैवं च मीमांसित्वा निर्धारितम् — प्राणवाय्वात्मनोर्व्रतमभग्नमिति ॥

अध्यात्मदर्शनमुक्त्वाऽधिदैवतदर्शनं वक्तुमनन्तरवाक्यमवतारयति —

अथेति ।

तर्हि ज्वलिष्यामित्यादि किमर्थमित्याशङ्क्याऽऽह —

कस्येति ।

वदिष्यामीत्यादावुक्तं व्याख्यानमिहापि द्रष्टव्यमित्याह —

अध्यात्मवदिति ।

यथादैवतं स्वं स्वं देवताव्यापारमनतिक्रम्यान्या दैवता विद्युदाद्या दध्रिरे व्रतमित्यर्थः ।

स यथेत्यादि व्याचष्टे —

सोऽध्यात्ममिति ।

वायुरपि मृत्युनाऽनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन वायुव्रतेनाभग्नव्रत इति शेषः ।

तदेव साधयति —

म्लोचन्तीति ।

ब्राह्मणोक्तमर्थमुपसंहरति —

एवमिति ॥२२॥