अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नुवदिति यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ २३ ॥
अथैतस्यैवार्थस्य प्रकाशकः एष श्लोको मन्त्रो भवति । यतश्च यस्माद्वायोः उदेति उद्गच्छति सूर्यः, अध्यात्मं च चक्षुरात्मना प्राणात् — अस्तं च यत्र वायौ प्राणे च गच्छति अपरसन्ध्यासमये स्वापसमये च पुरुषस्य — तं देवाः तं धर्मं देवाः चक्रिरे धृतवन्तः वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च पुरा विचार्य । स एव अद्य इदानीं श्वोऽपि भविष्यत्यपि काले अनुवर्त्यते अनुवर्तिष्यते च देवैरित्यभिप्रायः । तत्रेमं मन्त्रं सङ्क्षेपतो व्याचष्टे ब्राह्मणम् — प्राणाद्वा एष सूर्य उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इत्यस्य कोऽर्थ इत्युच्यते — यत् वै एते व्रतम् अमुर्हि अमुष्मिन्काले वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च अध्रियन्त, तदेवाद्यापि कुर्वन्ति अनुवर्तन्ते अनुवर्तिष्यन्ते च ; व्रतं तयोरभग्नमेव । यत्तु वागादिव्रतम् अग्न्यादिव्रतं च तद्भग्नमेव, तेषाम् अस्तमयकाले स्वापकाले च वायौ प्राणे च निम्लुक्तिदर्शनात् । अथैतदन्यत्रोक्तम् — ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं मनः प्राणं चक्षुः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्ममथाधिदैवतं यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति तस्मादेनमुदवासीदित्याहुर्वायुं ह्यनूद्वाति यदादित्योऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते’ (शत. ब्रा. १० । ३ । ३ । ६, ८) इति । यस्मात् एतदेव व्रतं वागादिषु अग्न्यादिषु च अनुगतं यदेतत् वायोश्च प्राणस्य च परिस्पन्दात्मकत्वं सर्वैः देवैरनुवर्त्यमानं व्रतम् — तस्मात् अन्योऽप्येकमेव व्रतं चरेत् ; किं तत् ? प्राण्यात् प्राणनव्यापारं कुर्यात् अपान्यात् अपाननव्यापारं च ; न हि प्राणापानव्यापारस्य प्राणनापाननलक्षणस्योपरमोऽस्ति ; तस्मात्तदेव एकं व्रतं चरेत् हित्वेन्द्रियान्तरव्यापारम् — नेत् मा मां पाप्मा मृत्युः श्रमरूपी आप्नुवत् आप्नुयात् — नेच्छब्दः परिभये — यद्यहमस्माद्व्रतात्प्रच्युतः स्याम् , ग्रस्त एवाहं मृत्युनेत्येवं त्रस्तो धारयेत्प्राणव्रतमित्यभिप्रायः । यदि कदाचित् उ चरेत् प्रारभेत प्राणव्रतम् , समापिपयिषेत् समापयितुमिच्छेत् ; यदि हि अस्माद्व्रतादुपरमेत् प्राणः परिभूतः स्यात् देवाश्च ; तस्मात्समापयेदेव । तेन उ तेन अनेन व्रतेन प्राणात्मप्रतिपत्त्या सर्वभूतेषु — वागादयः अग्न्यादयश्च मदात्मका एव, अहं प्राण आत्मा सर्वपरिस्पन्दकृत् एवं तेनानेन व्रतधारणेन एतस्या एव प्राणदेवतायाः सायुज्यं सयुग्भावम् एकात्मत्वं सलोकतां समानलोकतां वा एकस्थानत्वम् — विज्ञानमान्द्यापेक्षमेतत् — जयति प्राप्नोतीति ॥