प्रपञ्चितस्याविद्याकार्यस्य संक्षेपेणोपसंहारार्थं ब्राह्मणान्तरमवतारयति —
तदेतदिति ।
फलमपि ज्ञानकर्मणोरुक्तविशेषणवद्यदेतत्प्रस्तुतमिति संबन्धः ।
अव्याकृतप्रक्रियायामुक्तं स्मारयति —
या चेति ।
व्याकृताव्याकृतस्य जगतः संगृहीतं रूपमाह —
सर्वमिति ।
वाङ्मनःप्राणाख्यं त्रयमिति शङ्कां प्रत्याह —
किं तदित्यादिना ।
किमर्थः पुनरयमुपसंहार इत्याशङ्क्याऽऽह —
अनात्मैवेति ।
आत्मशब्दार्थमाह —
यत्साक्षादिति ।
अनात्मत्वेन जगतो हेयत्वं तच्छब्देन परामृश्यते ।
वैराग्यमपि किमर्थमित्याशङ्क्याऽऽह —
न हीति ।
अविरक्तोऽपि कुतूहलितया तत्राधिकारी स्यादित्याशङ्क्याऽऽह —
बाह्येति ।
अनात्मप्रवणमप्यात्मानं प्रत्याययिष्यत्यात्मनः सर्वात्मत्वात्कुतो विरोध इत्याशङ्क्याह —
तथेति ।
कथं तर्हि प्रत्यगात्मधीस्तत्राऽऽह —
कश्चिदिति ।