ब्राह्मणार्थदार्ढ्यार्थं मन्त्रमवतार्य व्याकरोति —
अथेत्यादिना ।
सूर्योऽधिदैवमुदयकाले वायोरुद्गच्छति । तत्र चापरसन्ध्यासमयेऽस्तं गच्छति । स एव चाध्यात्मं प्रबोधसमये चक्षुरात्मना प्राणादुदेति पुरुषस्य स्वापसमये च तस्मिन्नेवास्तं गच्छतीति यतश्चेत्यादौ विभागः ।
श्लोकस्योत्तरार्धं प्राणादित्यादिब्राह्मणव्यवहितं श्लोके पूर्णताज्ञापनार्थं प्रथमं व्याचष्टे —
तं देवा इति ।
धारणस्य प्रकृतत्वात्सामान्येन च विशेषं लक्षयित्वाऽऽह —
धृतवन्त इति ।
स एवेति धर्मपरामर्शः । तत्रेति सप्तमी संपूर्णमन्त्रमधिकरोति । इमं मन्त्रमिति पूर्वार्धोक्तिः ।
उत्तरार्धस्य ब्राह्मणमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —
तमित्यादिना ।
तैरभग्नं देवैरभग्नत्वेन मीमांसितं तेऽनुगच्छन्तीत्यर्थः ।
विशेषणस्यार्थवत्त्वं साधयति —
यत्त्विति ।
उक्तं हेतुमग्निरहस्यमाश्रित्य विशदयति —
अथेति ।
यथाऽत्रेत्युपमार्थोऽथशब्दः । अनुगच्छति शाम्यतीत्येतत् । वायुमनु तदधीन एव तस्मिन्काल उद्वात्यस्तमेति । उदवासीदस्तं गत इत्यर्थः । इतिशब्दोऽग्निरहस्यवाक्यसमाप्त्यर्थः।
अध्यात्मं प्राणव्रतमधिदैवञ्च वायुव्रतमित्येकमेव व्रतं धार्यमिति मन्त्रब्राह्मणाभ्यां प्रतिपाद्य तस्मादिति व्याचष्टे —
यस्मादिति ।
न हि वागादयोऽग्न्यादयो वा परिस्पन्दविरहिणः स्थातुमर्हन्ति तेन प्राणादिव्रतं तैरनुवर्त्यत एवेत्यर्थः ।
एकमेवेति नियमे प्राणव्यापारस्याभग्नत्वं हेतुमाह —
न हीति ।
तदनुपरमे फलितमाह —
तस्मादिति ।
ननु प्राणनाद्यभावे जीवनासंभवात्तस्याऽऽर्थिकत्वात्तदनुष्ठानमविधेयमित्याशङ्क्यैवकारलभ्यं नियमं दर्शयति —
हित्वेति ।
नेदित्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह —
यद्यहमिति ।
प्राणव्रतस्य सकृदनुष्ठानमाशङ्क्य सर्वेन्द्रियव्यापारनिवृत्तिवरूपं संन्यासमामरणमनुवर्तयेदित्याह —
यदीति ।
विपक्षे दोषमाह —
यदि हीति ।
प्राणादिपरिभवपरिहारार्थं नियमं निगमयति —
तस्मादिति ।
विद्याफलं वक्तुं भूमिकाङ्करोति —
तेनेति ।
व्रतमेव विशिनष्टि —
प्राणेति ।
प्रतिपत्तिमेव प्रकटयति —
सर्वभूतेष्विति ।
संप्रति विद्याफलं कथयति —
एवमिति ।
कथमेकस्मिन्नेव विज्ञाने फलविकल्पः स्यादित्याशङ्क्य विज्ञानप्रकर्षापेक्षं सायुज्यं तन्निकर्षापेक्षं च सालोक्यमित्याह —
विज्ञानेति ॥२३॥