रूपप्रकरणानन्तर्यमथेत्युच्यते । क्रियाविशेषाणां क्रियामात्रेऽन्तर्भावं प्रश्नद्वारा स्फोरयति —
कथमित्यादिना ।
आत्मशब्देनात्र शरीरनिर्वर्त्यकर्मग्रहणे पुरुषविधब्राह्मणशेषमनुकूलयति —
आत्मना हीति ।
तत्रैवोपपत्तिमाह —
शरीरे चेति ।
तथाऽपि कथमात्मशब्दः शरीरनिर्वर्त्यं कर्म ब्रूयादित्याशङ्क्य लक्षणयेत्याह —
अत इति ।
संक्षेपस्यापि संक्षेपान्तरमाह —
तदेतदिति ।
तदेतत्त्रयं त्रिदण्डविष्टम्भवत्संहतं सदेकमिति संबन्धः ।
कथं संहतत्वमत आह —
इतरेतराश्रयमिति ।
रूपं विषयमाश्रित्य नामकर्मणी सिध्यतः स्वातन्त्र्येण निर्विषययोस्तयोः सिद्ध्यदर्शनान्नामकर्मणी चाऽऽश्रित्य रूपं सिध्यति । न हि ते हित्वा किञ्चिदुत्पद्यत इत्यर्थः ।
वाचकेन वाच्यस्य इतरेतरस्य ताभ्याञ्च क्रियायास्तया तयोरपेक्षादर्शनादन्योन्यमभिव्यञ्जकत्वमाह —
इतरेतरेति ।
सति नाम्नि रूपसंहारदर्शनाद्रूपे च सति नामसंहारदृष्टेः सतोश्च तयोः कर्मणस्तस्मिंश्च सति तयोरुपसंहारोपलम्भादितरेतरप्रलयमित्याह —
इतरेतरप्रलयमिति ।
त्रयाणामेकत्वं विरुद्धमिति शङ्कित्वा परिहरति —
केनेत्यादिना ।
कथं कार्यकरणसंघातात्मना त्रयाणामेकत्वं तत्राऽऽह —
तथेति ।
नामरूपकर्मणां कार्यकरणसंघातमात्रत्वेऽपि ततो व्यतिरिक्तं संघातादन्यत्स्यादित्याशङ्क्याऽऽह —
एतावदिति ।
नामादित्रयस्य संघातमात्रत्वे कथं व्यवहारासाङ्कर्यमित्याशङ्क्याऽऽह —
आत्मेति ।
संघातोऽयमात्मशब्दितः स्वयमेकोऽपि सन्नध्यात्मादिभेदेन स्थितं त्रयमेव भवतीति व्यवहारासाङ्कर्यमित्यर्थः ।
एकस्मिन्नपि संघाते कारणरूपेणावान्तरविभागमाह —
तदेतदिति ।
आत्मभूतस्तस्योपाधित्वेन स्थित इति यावत् । अविनाशी स्थूलदेहे गच्छत्यपि यावन्मोक्षं न गच्छतीत्यर्थः ।
सच्च त्यच्च सत्यं भूतपञ्चकं तदात्मके नामरूपे इत्याह —
नामेति ।
कारणयाथात्म्यं कथयति —
क्रियात्मकस्त्विति ।
पञ्चीकृतपञ्चमहाभूतात्मकं तत्कार्यं सर्वं सच्च त्यच्चेति व्युत्पत्तेः सत्यं वैराजं शरीरं कार्यमपञ्चीकृतपञ्चमहाभूततत्कार्यात्मककरणरूपसप्तदशकलिङ्गस्य सूत्राख्यस्याऽऽयतनं तस्यैवाऽऽच्छादकं तत्खल्वनात्माऽपि स्थूलदेहच्छन्नत्वाद्दुर्विज्ञानं तेनापि च्छन्नं प्रत्यग्वस्तु सुतरामिति तज्ज्ञानेऽवहितैर्भाव्यमिति भावः ।
इदानीमविद्याकार्यप्रपञ्चमुपसंहरति —
एतदिति ।
अविद्याविषयविवरणस्य वक्ष्यमाणोपयोगमुपसंहरति —
अत इति ।
प्रपञ्चिते सत्यविद्याविषये ततो विरक्तस्याऽऽत्मानं विविदिषोस्तज्ज्ञापनार्थं चतुर्थप्रमुखः सन्दर्भो भविष्यति । तस्मादविद्याविषयविवरणमुपयोगीति भावः ॥३॥