बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
आत्मेत्येवोपासीत ; तदन्वेषणे च सर्वमन्विष्टं स्यात् ; तदेव च आत्मतत्त्वं सर्वस्मात् प्रेयस्त्वादन्वेष्टव्यम् — आत्मानमेवावेदहं ब्रह्मास्मीति — आत्मतत्त्वमेकं विद्याविषयः । यस्तु भेददृष्टिविषयः सः — अन्योऽसावन्योऽहमस्मीति न स वेदेति — अविद्याविषयः । ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इत्येवमादिभिः प्रविभक्तौ विद्याविद्याविषयौ सर्वोपनिषत्सु । तत्र च अविद्याविषयः सर्व एव साध्यसाधनादिभेदविशेषविनियोगेन व्याख्यातः आ तृतीयाध्यायपरिसमाप्तेः । स च व्याख्यातोऽविद्याविषयः सर्व एव द्विप्रकारः — अन्तःप्राण उपष्टम्भको गृहस्येव स्तम्भादिलक्षणः प्रकाशकोऽमृतः, बाह्यश्च कार्यलक्षणोऽप्रकाशक उपजनापायधर्मकः तृणकुशमृत्तिकासमो गृहस्येव सत्यशब्दवाच्यो मर्त्यः ; तेन अमृतशब्दवाच्यः प्राणः छन्न इति च उपसंहृतम् । स एव च प्राणो बाह्याधारभेदेष्वनेकधा विस्तृतः । प्राण एको वेद इत्युच्यते । तस्यैव बाह्यः पिण्ड एकः साधारणः — विराट् वैश्वानरः आत्मा पुरुषविधः प्रजापतिः कः हिरण्यगर्भः — इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सूर्यादिप्रविभक्तकरणः । एकं च अनेकं च ब्रह्म एतावदेव, नातः परमस्ति प्रत्येकं च शरीरभेदेषु परिसमाप्तं चेतनावत् कर्तृ भोक्तृ च — इति अविद्याविषयमेव आत्मत्वेनोपगतो गार्ग्यो ब्राह्मणो वक्ता उपस्थाप्यते । तद्विपरीतात्मदृक् अजातशत्रुः श्रोता । एवं हि यतः पूर्वपक्षसिद्धान्ताख्यायिकारूपेण समर्प्यमाणोऽर्थः श्रोतुश्चित्तस्य वशमेति ; विपर्यये हि तर्कशास्त्रवत्केवलार्थानुगमवाक्यैः समर्प्यमाणो दुर्विज्ञेयः स्यात् अत्यन्तसूक्ष्मत्वाद्वस्तुनः ; तथा च काठके — ‘श्रवणायापि बहुभिर्यो न लभ्यः’ (क. उ. १ । २ । ७) इत्यादिवाक्यैः सुसंस्कृतदेवबुद्धिगम्यत्वं सामान्यमात्रबुद्ध्यगम्यत्वं च सप्रपञ्चं दर्शितम् ; ‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) ‘आचार्याद्धैव विद्या’ (छा. उ. ४ । ४ । ३) इति च च्छान्दोग्ये ; ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’ (भ. गी. ४ । ३७) इति च गीतासु ; इहापि च शाकल्ययाज्ञवल्क्यसंवादेनातिगह्वरत्वं महता संरम्भेण ब्रह्मणो वक्ष्यति — तस्मात् श्लिष्ट एव आख्यायिकारूपेण पूर्वपक्षसिद्धान्तरूपमापाद्य वस्तुसमर्पणार्थ आरम्भः । आचारविध्युपदेशार्थश्च — एवमाचारवतोर्वक्तृश्रोत्रोराख्यायिकानुगतोऽर्थोऽवगम्यते । केवलतर्कबुद्धिनिषेधार्था च आख्यायिका — ‘नैषा तर्केण मतिरापनेया’ (क. उ. १ । २ । ९) ‘न तर्कशास्त्रदग्धाय’ (मो. ध. २४७ । १८) इति श्रुतिस्मृतिभ्याम् । श्रद्धा च ब्रह्मविज्ञाने परमं साधनमित्याख्यायिकार्थः ; तथा हि गार्ग्याजातशत्र्वोरतीव श्रद्धालुता दृश्यत आख्यायिकायाम् ; ‘श्रद्धावांल्लभते ज्ञानम्’ (भ. गी. ४ । ३०) इति च स्मृतिः ॥

तृतीयेऽध्याये सूत्रितविद्याविद्ययोरविद्या प्रपञ्चिता, संप्रति विद्यां प्रपञ्चयितुं चतुर्थमध्यायमारभमाणो वृत्तं कीर्तयति —

आत्मेति ।

किमित्यर्थान्तरेषु सत्स्वात्मतत्त्वमेवानुसन्धातव्यं तत्राऽऽह —

तदन्वेषणे चेति ।

तस्यैवान्वेष्टव्यत्वे परप्रेमास्पदत्वेन परमानन्दत्वं हेत्वन्तरमाह —

तदेवेति ।

आत्मतत्त्वज्ञानस्य सर्वापत्तिफलत्वाच्च तदेवान्वेष्टव्यमित्याह —

आत्मानमिति ।

उक्तया परिपाट्या सिद्धमर्थं संगृह्णाति —

आत्मतत्त्वमिति ।

उक्तमर्थान्तरमनुवदति —

यस्त्विति ।

सोऽविद्याविषय इति संबन्धः ।

कथं भेददृष्टिविषयस्याविद्याविषयत्वं तत्राऽऽह —

अन्योऽसाविति ।

यो भेददृष्टिपरः स न वेदेत्यविद्या तद्दृष्टिमूलं सूत्रिता तेन तद्विषयो भेददृष्टिविषय इत्यर्थः ।

कथं यथोक्तौ विद्याविद्याविषयावसंकीर्णाववसातुं शक्येते तत्राऽऽह —

एकधेति ।

सप्तान्नब्राह्मणे वृत्तमर्थं कथयति —

तत्र चेति ।

विद्याविद्याविषययोरिति यावत् । आदिपदं साध्यसाधनावान्तरभेदसंग्रहार्थम् । यथोक्तो भेद एव विशेषः । तस्मिन्विनियोगो व्यवस्थापनं तेनेत्यर्थः ।

उपसंहारब्राह्मणान्ते वृत्तमनुभाषते —

स चेति ।

अथवोक्तौ विद्याविद्याविषयौ कथमसंकीर्णौ मन्तव्यावित्याशङ्क्याह —

एकधेति ।

तत्रोत्तरग्रन्थस्य विषयपरिशेषार्थं पुरुषविधब्राह्मणशेषमारभ्योक्तं दर्शयति —

तत्र चेति ।

तर्हि समाप्तत्वादविद्याविषयस्य कथमविदुषो गार्ग्यस्य प्रवृत्तिरित्याशङ्क्य तदर्थमवान्तरविभागमनुवदति —

स चेति ।

तावेव प्रकारौ दर्शयन्नादौ सूक्ष्मं शरीरमुपन्यस्यति —

अन्तरिति ।

तस्य बाह्यकरणद्वारा स्थूलेषु विषयेषु प्रकाशकत्वममृतत्वं च व्युत्पादितम् ।

द्वितीयं प्रकारमाचक्षाणः स्थूलं शरीरं दर्शयति —

बाह्यश्चेति ।

तस्य कयापि विधया सूक्ष्मदेहं प्रत्यप्रकाशकत्वादप्रकाशकत्वम् आगमापायित्वेनावहेयत्वं सूचयति —

उपजनेति ।

यथा गृहस्य तृणादि बहिरङ्गं तथा सूक्ष्मस्य देहस्य स्थूलो देहस्तथाऽपि तृणादि विना गृहस्य व्यवहारयोग्यत्ववत्तस्यापि स्थूलदेहं विना न तद्योग्यत्वमिति मत्वाऽऽह —

तृणेति ।

तस्य पूर्वप्रकरणान्ते नामरूपे सत्यमित्यत्र प्रस्तुतत्वमस्तीत्याह —

सत्येति ।

सर्वथा बाधवैधुर्यं सत्यत्वमिति शङ्कां निरस्तुं विशिनष्टि —

मर्त्य इति ।

तस्य कार्यं दर्शयति —

तेनेति ।

वृत्तमनूद्याजातशत्रुब्राह्मणमवतारयति —

स एवेति ।

आदित्यचन्द्रादयो बाह्याधारभेदाः । अनेकधात्वमतिष्ठामूर्धेत्यादिवक्ष्यमाणगुणवशाद्द्रष्टव्यम् ।

कथं तर्हि तस्यैकत्वं तत्राऽऽह —

प्राण इति ।

प्राणस्य नानात्वमेकत्वं चोक्तं तत्रैकत्वं विवृणोति —

तस्यैवेति ।

प्राणस्यैव स्वभावभूतोऽनात्मलक्षणः पिण्डः समष्टिरूपो हिरण्यगर्भादिशब्दैरुपाधिविषयैस्तत्र तत्र श्रुतिस्मृत्योरुच्यते । स च “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ”(मु.उ. २-१-४) इत्यादिश्रुतेः सूर्यादिभिः प्रविभक्तैः करणैरुपेतो भवतीत्यर्थः ।

यद्ब्रह्म समस्तं व्यस्तं च तदिदं हिरण्यगर्भमात्रमेव न तस्मादधिकमस्तीति हिरण्यगर्भं स्तौति —

एकञ्चेति ।

एकत्वं विशदीकृत्य प्राणस्य नानात्वं विशदयति —

प्रत्येकञ्चेति ।

गोत्वादिसामान्यतुल्यत्वं व्यावर्तयति —

चेतनावदिति ।

केवलभोक्तृत्वपक्षं वारयति —

कर्त्रिति ।

वक्ता पूर्वपक्षवादीति यावत् । तस्मादमुख्याद्ब्रह्मणो विपरीतं मुख्यं ब्रह्म तस्मिन्नात्मदृष्टी राजा श्रोता सिद्धान्तवादीत्यर्थः ।

किमिति वक्तृश्रोतृरूपाख्यायिका प्रणीयते तत्राऽऽह —

एवं हीति ।

एवंशब्दार्थमेव स्फुटयति —

पूर्वपक्षेति ।

अतो भवितव्यमाख्यायिकयेति शेषः ।

आख्यायिकानङ्गीकारे दोषमाह —

विपर्यये हीति ।

यथा तर्कशास्त्रेण समर्प्यमाणोऽर्थो ज्ञातुं न शक्यत औत्प्रेक्षिकतर्काणां निरङ्कुशत्वात्तथा केवलमर्थोऽनुगम्यते प्रश्नप्रतिवचनभावरहितैर्यैर्वाक्यैस्तैः समर्प्यमाणोऽपि दुर्विज्ञेयोऽर्थः स्याद्यद्याख्यायिका नानुश्रीयते तेन सा सुखप्रतिपत्त्यर्थमनुसर्तव्येत्यर्थः ।

कुतो दुर्विज्ञेयत्वं तत्राऽऽह —

अत्यन्तेति ।

यथोक्तस्य वस्तुनो दुर्विज्ञेयत्वे श्रुतिस्मृतिसंवादं दर्शयति —

तथा चेति ।

सुसंस्कृता परिशुद्धा देवबुद्धिः सात्त्विकी बुद्धिः । सामान्यमात्रबुद्धिस्तामसी राजसी च बुद्धिः । अतिगह्वरत्वमत्यन्तगम्भीरत्वम् । संरम्भस्तात्पर्यम् ।

ब्रह्मणो दुर्विज्ञेयत्वे फलितमाह —

तस्मादिति ।

आख्यायिकायाः सुखप्रतिपत्त्यर्थत्वमुक्त्वाऽर्थान्तरमाह —

आचारेति ।

उत्तमादधमेन प्रणिपातोपसदनादिद्वारा विद्या ग्राह्या । अधमात्तूत्तमेन तद्व्यतिरेकेण श्रद्धादिमात्रेण सा लभ्येत्याचारप्रकारज्ञापनार्थश्चायमारम्भ इत्यर्थः ।

आख्यायिकाया यथोक्तेऽर्थेऽन्वितत्वं कथयति —

एवमिति ।

वक्तृश्रोत्रोर्मध्ये यथोक्ताचारवता श्रोत्रा विद्या लब्धव्या । वक्त्रा च तादृशेन सोपदेष्टव्येत्येषोऽर्थोऽस्यामाख्यायिकायामनुगतो गम्यते । तस्मादाचारविशेषं दर्शयितुमेषाऽऽख्यायिका युक्तेत्यर्थः । आगमानुसारिगुरुसंप्रदायादेव तत्त्वधीर्लभ्यते ।

यस्तु केवलस्तर्कस्तद्वशान्नैषा बुद्धिः सिद्ध्यति । तथा च केवलतर्कप्रयुक्ता तत्त्वबुद्धिरिति संभावनानिषाधार्थाऽख्यायिकेति पक्षान्तरमाह —

केवलेति ।

केवलेन तर्केण तत्त्वबुद्धिर्न सिद्ध्यतीत्यत्र श्रुतिस्मृती दर्शयति —

नैषेति ।

मतिं दद्यादिति शेषः ।

प्रकारान्तरेणाऽऽख्यायिकामवतार्य तत्राऽऽख्यायिकानुगुण्यं दर्शयति —

तथा हीति ।

श्रद्धा ब्रह्मज्ञाने परमं साधनमित्यत्र भगवतोऽपि सम्मतिमाह —

श्रद्धावानिति ।