बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ओं । दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥
तत्र पूर्वपक्षवादी अविद्याविषयब्रह्मवित् दृप्तबालाकिः - दृप्तः गर्वितः असम्यग्ब्रह्मवित्त्वादेव — बलाकाया अपत्यं बालाकिः, दृप्तश्चासौ बालाकिश्चेति दृप्तबालाकिः, ह - शब्द ऐतिह्यार्थ आख्यायिकायाम् , अनूचानः अनुवचनसमर्थः वक्ता वाग्मी, गार्ग्यो गोत्रतः, आस बभूव क्वचित्कालविशेषे । स होवाच अजातशत्रुम् अजातशत्रुनामानम् काश्यं काशिराजम् अभिगम्य — ब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं ब्रवाणि कथयानि । स एवमुक्तोऽजातशत्रुरुवाच — सहस्रं गवां दद्मः एतस्यां वाचि — यां मां प्रत्यवोचः ब्रह्म ते ब्रवाणीति, तावन्मात्रमेव गोसहस्रप्रदाने निमित्तमित्यभिप्रायः । साक्षाद्ब्रह्मकथनमेव निमित्तं कस्मान्नापेक्ष्यते सहस्रदाने, ब्रह्म ते ब्रवाणीति इयमेव तु वाक् निमित्तमपेक्ष्यत इत्युच्यते — यतः श्रुतिरेव राज्ञोऽभिप्रायमाह — जनको दाता जनकः श्रोतेति च एतस्मिन्वाक्यद्वये एतद्वयमभ्यस्यते जनको जनक इति ; वै - शब्दः प्रसिद्धावद्योतनार्थः ; जनको दित्सुर्जनकः शुश्रूषुरिति ब्रह्म शुश्रूषवो विवक्षवः प्रतिजिघृक्षवश्च जनाः धावन्ति अभिगच्छन्ति ; तस्मात् तत्सर्वं मय्यपि सम्भावितवानसीति ॥

आख्यायिकार्थे बहुधा स्थिते तदक्षराणि व्याचष्टे —

अत्रेत्यादिना ।

पूर्वपक्षवादित्वे हेतुमाह —

अविद्याविषयेति ।

गर्वितत्वे हेतुमाह —

असम्यगिति ।

इयमेव नु वाङ्निमित्तमित्यत्रापि कस्मादित्यनुषज्यते । अतो ब्रह्म ते ब्रवाणीति वागेव सहस्रदाने निमित्तमिति शेषः ।

श्रुतिं व्याचष्टे —

जनक इति ।

प्रसिद्धं जनकस्य दातृत्वादि तदवद्योतको वैनिपात इति यावत् ।

वाक्यार्थमाह —

जनको दित्सुरित्यादिना ।

संभावितवानसीति प्रागुक्तं वाङ्मात्रं सहस्रदाने निमित्तमिति शेषः । तस्मान्मुग्धप्रसिद्ध्यतिक्रमणादिति यावत् । तत्सर्वं दातृत्वादिकमित्यर्थः । इतिशब्दोऽभिप्रायसमाप्त्यर्थः ॥१॥