बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥
एवं राजानं शुश्रूषुम् अभिमुखीभूतं स होवाच गार्ग्यः — य एव असौ आदित्ये चक्षुषि च एकः अभिमानी चक्षुर्द्वारेण इह हृदि प्रविष्टः अहं भोक्ता कर्ता चेत्यवस्थितः — एतमेव अहं ब्रह्म पश्यामि अस्मिन्कार्यकरणसङ्घाते उपासे ; तस्मात् तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीमि उपास्स्वेति । स एवमुक्तः प्रत्युवाच अजातशत्रुः मा मेति हस्तेन विनिवारयन् — एतस्मिन् ब्रह्मणि विज्ञेये मा संवदिष्ठाः ; मा मेत्याबाधनार्थं द्विर्वचनम् — एवं समाने विज्ञानविषय आवयोः अस्मानविज्ञानवत इव दर्शयता बाधिताः स्यामः, अतो मा संवदिष्ठाः मा संवादं कार्षीः अस्मिन्ब्रह्मणि ; अन्यच्चेज्जानासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत एव । अथ चेन्मन्यसे — जानीषे त्वं ब्रह्ममात्रम् , न तु तद्विशेषेणोपासनफलानीति — तन्न मन्तव्यम् ; यतः सर्वमेतत् अहं जाने, यद्ब्रवीषि ; कथम् ? अतिष्ठाः अतीत्य भूतानि तिष्ठतीत्यतिष्ठाः, सर्वेषां च भूतानां मूर्धा शिरः राजेति वै — राजा दीप्तिगुणोपेतत्वात् एतैर्विशेषणैर्विशिष्टमेतद्ब्रह्म अस्मिन्कार्यकरणसङ्घाते कर्तृ भोक्तृ चेति अहमेतमुपास इति ; फलमप्येवं विशिष्टोपासकस्य — स य एतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ; यथागुणोपासनमेव हि फलम् ; ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १० । ५ । २ । २०) इति श्रुतेः ॥

हृदि प्रविष्टो भोक्ताऽहमित्यादि प्रत्यक्षं प्रमाणयति —

अहमिति ।

दृष्टिफलं नैरन्तर्याभ्यासं दर्शयति —

उपास इति ।

तावता मम किमायातं तदाह —

तस्मादिति ।

मा मेति प्रतीकमादायाभ्यासस्यार्थमाह —

मा मेतीति ।

विनिवारयन्प्रत्युवाचेति संबन्धः ।

एकस्य माङो निवारकत्वमपरस्य संवादेन संगतिरिति विभागे संभवति कुतो द्विर्वचनमित्याशङ्क्याऽऽह —

मा मेत्याबाधनार्थमिति ।

तदेव स्फुटयति —

एवमिति ।

त्वदुक्तेन प्रकारेण यो विज्ञानविषयोऽर्थस्तस्मिन्नावयोर्विज्ञानसाम्यादेव समानेऽपि विज्ञानवत्त्वे सत्यस्मानविज्ञानवत इव स्वीकृत्य तमेवार्थमस्मान्प्रत्युपदेशेन ज्ञापयता भवता वयं बाधिताः स्याम इति योजना ।

तथाऽपि गार्ग्यस्य कथमीषद्बाधनं तत्राऽऽह —

अत इति ।

अतिष्ठाः सर्वेषामित्यादिवाक्यं शङ्काद्वाराऽवतार्य व्याकरोति —

अथेत्यादिना ।

एतं पुरुषमिति शेषः । इतिशब्दो गुणोपास्तिसमाप्त्यर्थः ।

पूर्वोक्तरीत्या त्रिभिर्गुणैर्विशिष्टं ब्रह्म तदुपासकस्य फलमपि जानामीत्युक्त्वा फलवाक्यमुपादत्ते —

स य इति ।

किमिति यथोक्तं फलमुच्यते तत्राऽऽह —

यथेति ।

मनसि चेति चकाराद्बुद्धौ चेत्यर्थः ॥२॥